________________
चूणि० उ० १९ सू० २५-३७ अन्यतीर्थिकादिपार्श्वस्थादीनां वाचनादानाऽऽदाननि० ४२७
सूत्रम् — जे भिक्खू अण्णउत्थियं वा गारत्थियं वा वाएइ वाएंतं वा साइज्जइ ॥ सू० २५ ॥
छाया - यो भिक्षुरन्ययूथिकं वा गृहस्थं वा वाचयति वाचयन्तं वा स्वदते ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अण्णउत्थियं वा' अन्ययूथिकं अन्यतीर्थिकं तापसपरिव्राजकादिकम् 'गारत्थियं, गृहस्थ वा 'वाएइ' वाचयति - सूत्रवाचनां ददाति सूत्रमध्यापयति तथा 'वाएंतं वा साइज्जइ' वाचयन्तम्एवं वाचनां ददतं श्रमणान्तरं यः श्रमणः श्रमणी वा स्वदते- अनुमोदते स प्रायश्चित्तभागी भवति ॥ २५ ॥
सूत्रम् -- जे भिक्खू अण्णउत्थियस्स वा गारत्थियस्स वा पडिच्छर पडिच्छंतं वा साइज्जइ ॥ सू० २६ ॥
छाया - यो भिक्षुरन्ययूथिकस्य वा गृहस्थस्य वा प्रतीच्छति प्रतीच्छन्तं वा स्वदते ॥ ० २६ ॥
चूर्णी – 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'अण्णउत्थियस्स वा' अन्ययूथिकस्य वा तापसपरिव्राजकादिकस्य 'गारत्थियस्स वा गृहस्थस्य वा सकाशात् 'पडिच्छइ' प्रतीच्छति - वाचनां स्वीकरोति, तापसादितो गृहस्थाद वा सूत्रमर्थ वा अधीते तथा 'पडिच्छंतं वा साइज्जइ' प्रतीच्छन्तं वा तापसादितः सूत्रमर्थ वा अधीयानं श्रमणान्तरं स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति ॥ २६ ॥
सूत्रम् -- जे भिक्खू पासत्थं वाएइ वाएंतं वा सइज्जइ ॥ सू० २७ ॥
छाया -यो भिक्षुः पार्श्वस्थं वाचयति वाचयन्तं वा स्वदते ||२७ ॥
चर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद भिक्षु श्रमणः श्रमणी वा 'पासत्थं' पार्श्वस्थम् - ज्ञानदर्शनचारित्रस्य पार्श्वे - समीपे तिष्ठति यः स पार्श्वस्थः ज्ञानादिसमीपे स्थितः किन्तु न तदाराधकः, स द्रव्येण श्रमणः न तु भावेन तादृशं पार्श्वस्थं यः श्रमणः श्रमणी ar 'ates' वाचयति - सूत्रार्थयोर्वाचनां ददाति तथा 'वाएंतं वा साइज्जइ' वाचयन्तं पार्श्वस्थं सूत्रार्थयोः वाचनां ददतं श्रमणान्तरं स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति ||सू०२७॥
सूत्रम् - जे भिक्खू पासत्थस्स पडिच्छइ पडिच्छंतं वा साइज्जइ ॥
छाया - यो भिक्षुः पार्श्वस्थस्य प्रतीच्छति प्रतीच्छन्तं वा स्वदते ॥ सू० २२ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'पासत्थस्स' पार्श्वस्थस्य-यथोक्तलक्षणस्य सकाशात् 'पडिच्छर' प्रतीच्छति - पार्श्वस्थात् सूत्रार्थयोरध्ययनं
શ્રી નિશીથ સૂત્ર