Book Title: Agam 24 Chhed 01 Nishith Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
४२०
निशीथसूत्रे
स प्रायश्चित्तभागी भवति । तानेव महामहान् प्रदर्शयति-'तं जहा' इत्यादि । 'तं जहा' तद्यथा'इंदमहे' इन्द्रनामकदेवस्य महोत्सवे चैत्रीपूर्णिमायां जायमाने 'खंदमहे' स्कन्दमहे स्कन्दः कार्तिकेयः, तस्य महोत्सवे आषाढ़ी पूर्णिमायां जायमाने 'जक्खमहे' यक्षमहे-यक्षमहोत्सवे-आश्विनीपूर्णिमायां जायमाने 'भूयमहे' भूतमहे-व्यन्तरदेवमधिकृत्य जायमाने महोत्सवे-कार्तिकीपूर्णिमायां जायमाने, उपर्युक्तमहोत्सवचतुष्टयसमये यावत् महोत्सवस्यान्तिमः समयो भवति तावदित्यर्थः तत्स्थाने च यः श्रमणः श्रमणी वा स्वाध्यायं समाचरति तथा समाचरन्तमनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ११॥
सूत्रम्-जे भिक्खू चउसु महापडिवएसु सज्झायं करेइ करेंतं वा साइज्जइ। तं जहा-सुगिम्हियपाडिवए, आसाढीपाडिवए, आसोईपाडिवए, कत्तियपाडिवए । सू० १२॥
छाया-यो भिक्षुश्चतसृषु महामतिपत्सु स्वाध्यायं करोति कुर्वन्तं वा स्वदते तद्यथा-सुग्रीष्मिकप्रतिपदि, आषाढीप्रतिपदि, आश्विनीप्रतिपदि, कार्तिकीप्रतिपदि ॥सू० १२
चूर्णी-'जे भिक्ख' इत्यादि । 'जेभिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'चउसु महापडिवएसु, चतसृषु महाप्रतिपत्सु पूर्वीक्तचतुर्महोत्वानामनन्तरं जायमानासु बहुलपतिपत्सु 'सज्झायं करेइ' स्वाध्याय-सूत्रार्थतदुभयस्य अध्ययनं करोति तथा 'करेंतं वा साइज्जई' कुर्वन्तं वा श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति, तत्र काः ताः महाप्रतिपदः यासु स्वाध्यायस्य प्रतिषेधः क्रियते ? तत्राह-'तं जहा' इत्यादि । 'तं जहा' तद्यथा-'सुगिम्हियपाडिवए' सुग्रीष्मिकप्रतिपदि चैत्रशुक्लपूर्णिमाया अनन्तरं जायमानायां वैशाखकृष्णप्रतिपदि, 'आसा. ढीपाडिवए'आषाढीप्रतिपदि आषाढसम्बन्धिप्रतिपदि आषाढशुक्लपूर्णिमाया अनन्तरं जायमानायां श्रावणकृष्णप्रतिपदि, एवम् 'आसोईपाडिवए' आश्विनीप्रतिपदि-आश्विनपूर्णिमाया अनन्तरं जायमानायां कार्तिक कृष्णप्रतिपदि 'कत्तियपाडिवए' कात्तिकोप्रतिपदि कार्तिकपूर्णिमाया अनन्तर जायमानायां मार्गशीर्षकृष्णप्रतिपदि । एतासु पूर्वोक्तासु चतसृषु प्रतिपत्सु देवा गमनागमनं कुर्वन्ति शास्त्र. स्य देवानां च भाषा एकैवेति यदि एतासु तिथिषु अध्ययनं करिष्यन्ति तदा यदि तत्राशुद्धमुच्चारणं स्यात् तदा रुष्टास्ते देवा विघ्नं करिष्यन्तीति कृत्वा एत्तासु तिथिषु स्वाध्यायस्य निषेधः कृतो भवति ॥सू० १२॥
सूत्रम्-जे भिक्खू पोरिसिं सज्झायं उवाइणावेइ उवाइणावेतं वा साइज्जइ ॥ सू० १३॥
छाया-यो भिक्षुः पौरुषी स्वाध्यायीमतिक्रामति अतिक्रामन्तं वा स्वदते ॥ सू० १३॥
શ્રી નિશીથ સૂત્ર
Loading... Page Navigation 1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550