Book Title: Agam 24 Chhed 01 Nishith Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 509
________________ ४१८ निशीथसूत्रे चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'विथडं' विकृतम् अचित्तं गुडशर्करादिजलम् 'गालेइ' स्वयं गलति-वस्त्रेण निस्तारयति, वस्त्रपूतं करोतीत्यर्थः । यद्वा-विकृतम् अचित्तं गुडशर्करादिकं गलति-जले निक्षिप्य द्रवीकरोति गुडादिकं जलमिश्रितं करोतीत्यर्थः ‘गालावेइ' गालयति परद्वारा तथाभूतं कारयति तथा- 'गालियं. आह१ दिज्जमाणं' गालितमाहृत्य गलितं सत् संमुखमागत्य दीयमानम् 'पडिग्गाहेई' प्रतिगृह्णाति स्वीकरोति तथा 'पडिग्गाहेंतं वा साइज्जइ' प्रतिगृह्णन्तं वा श्रमणान्तरं स्वदते–अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याऽऽज्ञाभङ्गादिका दोषा अपि भवन्ति ॥ सू० ७ ।। सूत्रम्-जे भिक्खू चाहिं संझाहिं सज्झायं करेइ करेंतं वा साइज्जइ । तं जहा-पुव्वाए संझाए, पच्छिमाए संझाए, अवरण्हे , अद्धरत्ते ॥ सू० ८॥ छाया-यो भिक्षुश्चतसृषु संध्यासु स्वाध्यायं करोति कुर्वन्तं वा स्वदते । तद्यथापूर्वस्यां सन्ध्यायां, पश्चिमायाम् सन्ध्यायाम्, अपराण्हे, अर्द्धरात्रे ॥ सू० ८ ॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जेभिक्खूयः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'चउहि संझाहि' चतसृषु संध्यासु 'सज्झाय' स्वाध्यायं सूत्रार्थतदुभयानां पठनं, पठितानां च परिवर्तनम् 'करेइ' करोति तथा 'करेंत वा साइज्जइ' कुर्वन्तं वा श्रमणान्तरं स्वदते-अनुमोदते । अथ कास्ताश्चतस्रः सन्ध्याः ? इत्याह-'तंजहा' इत्यादि । 'तंजहा' तद्यथा-'पुवाए संझाए' पूर्वस्यां सन्ध्यायाम्-पूर्वकालिकसंध्यायां सूर्योदयसमये-सूर्योदयात्पूर्व मुहूर्ताादारभ्य सूर्योदयानन्तरं मुहूर्ता? यावत् अस्वाध्यायकालः तस्मिन् अस्वाध्यायकाले, तथा 'पच्छिमाए संझाए' पश्चिमायां संध्यायां सूर्यास्तकाले एवं सूर्यास्तात्पूर्व मुहूर्त्ता दारभ्य सूर्यास्तानन्तरं मुहूर्ताई यावत् पश्चिमसन्ध्या, स च कालः अस्वाध्यायकालः तस्मिन् मुहूतेककाले 'अवरण्हे' अपराण्हेमध्याह्नस्यार्धार्द्धमुहूर्तपूर्वापरकाले इत्यर्थः 'अद्धरत्ते' अर्द्धरात्रे निशीथे तत्राऽपि-अर्धार्द्ध मुहूर्तपूर्वापरकाले, एताश्चत्स्रः सन्ध्याः अस्वाध्यायकालः, एतासु अस्वाध्यायकालरूपासु चसृषु सन्ध्यासु यः श्रमणः श्रमणी वा सूत्रार्थतदुभयानां परिवर्तनलक्षणं स्वाध्यायं करोति तथा-कुर्वन्तं स्वदतेअनुमोदते स प्रायश्चित्तभागी भवति ।। सू० ८ ॥ सूत्रम्-जे भिक्खू कालियसुयस्स परं तिण्हं पुच्छाणं पुच्छइ पुच्छंतं वा साइज्जइ ॥ सू० ९॥ ____ छाया-यो भिक्षुः कालिकश्रुतस्य परं तिसृणां पृच्छानां पृच्छति पृच्छन्तं वा स्वदते ॥ सू० ९॥ શ્રી નિશીથ સૂત્ર

Loading...

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550