________________
४१८
निशीथसूत्रे
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'विथडं' विकृतम् अचित्तं गुडशर्करादिजलम् 'गालेइ' स्वयं गलति-वस्त्रेण निस्तारयति, वस्त्रपूतं करोतीत्यर्थः । यद्वा-विकृतम् अचित्तं गुडशर्करादिकं गलति-जले निक्षिप्य द्रवीकरोति गुडादिकं जलमिश्रितं करोतीत्यर्थः ‘गालावेइ' गालयति परद्वारा तथाभूतं कारयति तथा- 'गालियं. आह१ दिज्जमाणं' गालितमाहृत्य गलितं सत् संमुखमागत्य दीयमानम् 'पडिग्गाहेई' प्रतिगृह्णाति स्वीकरोति तथा 'पडिग्गाहेंतं वा साइज्जइ' प्रतिगृह्णन्तं वा श्रमणान्तरं स्वदते–अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याऽऽज्ञाभङ्गादिका दोषा अपि भवन्ति ॥ सू० ७ ।।
सूत्रम्-जे भिक्खू चाहिं संझाहिं सज्झायं करेइ करेंतं वा साइज्जइ । तं जहा-पुव्वाए संझाए, पच्छिमाए संझाए, अवरण्हे , अद्धरत्ते ॥ सू० ८॥
छाया-यो भिक्षुश्चतसृषु संध्यासु स्वाध्यायं करोति कुर्वन्तं वा स्वदते । तद्यथापूर्वस्यां सन्ध्यायां, पश्चिमायाम् सन्ध्यायाम्, अपराण्हे, अर्द्धरात्रे ॥ सू० ८ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जेभिक्खूयः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'चउहि संझाहि' चतसृषु संध्यासु 'सज्झाय' स्वाध्यायं सूत्रार्थतदुभयानां पठनं, पठितानां च परिवर्तनम् 'करेइ' करोति तथा 'करेंत वा साइज्जइ' कुर्वन्तं वा श्रमणान्तरं स्वदते-अनुमोदते । अथ कास्ताश्चतस्रः सन्ध्याः ? इत्याह-'तंजहा' इत्यादि । 'तंजहा' तद्यथा-'पुवाए संझाए' पूर्वस्यां सन्ध्यायाम्-पूर्वकालिकसंध्यायां सूर्योदयसमये-सूर्योदयात्पूर्व मुहूर्ताादारभ्य सूर्योदयानन्तरं मुहूर्ता? यावत् अस्वाध्यायकालः तस्मिन् अस्वाध्यायकाले, तथा 'पच्छिमाए संझाए' पश्चिमायां संध्यायां सूर्यास्तकाले एवं सूर्यास्तात्पूर्व मुहूर्त्ता दारभ्य सूर्यास्तानन्तरं मुहूर्ताई यावत् पश्चिमसन्ध्या, स च कालः अस्वाध्यायकालः तस्मिन् मुहूतेककाले 'अवरण्हे' अपराण्हेमध्याह्नस्यार्धार्द्धमुहूर्तपूर्वापरकाले इत्यर्थः 'अद्धरत्ते' अर्द्धरात्रे निशीथे तत्राऽपि-अर्धार्द्ध मुहूर्तपूर्वापरकाले, एताश्चत्स्रः सन्ध्याः अस्वाध्यायकालः, एतासु अस्वाध्यायकालरूपासु चसृषु सन्ध्यासु यः श्रमणः श्रमणी वा सूत्रार्थतदुभयानां परिवर्तनलक्षणं स्वाध्यायं करोति तथा-कुर्वन्तं स्वदतेअनुमोदते स प्रायश्चित्तभागी भवति ।। सू० ८ ॥
सूत्रम्-जे भिक्खू कालियसुयस्स परं तिण्हं पुच्छाणं पुच्छइ पुच्छंतं वा साइज्जइ ॥ सू० ९॥
____ छाया-यो भिक्षुः कालिकश्रुतस्य परं तिसृणां पृच्छानां पृच्छति पृच्छन्तं वा स्वदते ॥ सू० ९॥
શ્રી નિશીથ સૂત્ર