________________
चूर्णिभाष्यावचूरिःउ० १९ सू० ५-८ विकृतग्रहणगालन-चतुःसन्ध्यास्वाध्यायनिषेधः ४१७ स्यात् यथाऽयं प्रव्रजितो भूत्वाऽपि शास्त्राज्ञारहितदत्तित्रयादधिकं स्वीकरोतीति, तथा साधो.. भदशाऽपि प्रकटा भवति, तथा-ग्लानस्यातिमात्राग्रहणेनाऽसह्यतया शरीरेऽन्यो रोगः समुत्पद्यते तेनाऽऽत्मविराधना, शरीरे विषयविकारोऽपि समुत्पद्यते तेन संयमविराधनाऽवश्यम्भाविनी, लोके च तद्विषये शङ्का जायते यदयमेतादृशवस्तुजातमधिकं विना कारणं शरीरपुष्टयर्थ भुङ्क्ते तेन ज्ञायतेऽयं कामी कामविषयमपि सेवते इति प्रतिभाति, तथाऽयं दरिद्र कुलोत्पन्नोऽस्ति येनाऽयं पूर्व स्वगृहे नैतादृशं वस्तु दृष्टवान् अतोऽधिकाहारलोलुपोऽस्तीत्येवं लोके निन्दा प्रवचनहोलना चापि भवति, इत्यादिकारणात् ग्लानार्थमपि दत्तित्रयादधिकं किमपि एतादृशद्रववस्तु न स्वयं गृह्णीयात्, वा परान् ग्राहयेत् न, वा गृह्णन्तं श्रमणान्तरमनुमोदयेदिति ॥ सू० ५ ॥
सूत्रम्-जे भिक्खू वियडं गहाय गामाणुगामं दूइज्जइ दूइज्जतं वा साइज्जइ ॥सू०६॥
छाया-यो भिक्षुर्विकृतं गृहीत्वा ग्रामानुग्रामं द्रवति द्रवन्तं वा स्वदते ॥ सू० ६॥
चूर्णी-'जे भिक्खू इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'वियर्ड गहाय' विकृतम्-अचित्तमपि प्रपाणकादिकम् एकस्मिन् ग्रामे गृहीत्वा अग्रे पानार्थ 'गामाणुगामं दुइज्जई' ग्रामानुग्रामं द्रवति--एकस्माद्ग्रामात् क्रोशद्वयादूय ग्रामान्तरं गच्छति तथा 'दइज्ज माणं वा साइज्जइ' द्रवन्तं-गच्छन्तं वा स्वदते- अनुमोदते स प्रायश्चित्तभागी भवति ॥
अत्राह-भाष्यकार:भाष्यम्-कारणाकारणेहिं जो, गहाय वियर्ड जइ ।
गामाणुगामं दृइज्जा, आणाभंगाइ पावइ ॥१॥ छायाकारणाकारणाभ्यां यः गृहीत्वा विकृतं यतिः ।
ग्रामानुग्रामं द्रवेत् आज्ञाभङ्गादि प्राप्नोति ॥१॥ अवचूरिः-कारणाकारणाभ्यां-कारणतोऽकारणतो वा यो यतिः-साधुः अचित्तं विकृतं द्रवजातं प्रपाणकादिकं गृहीत्वा यत्र ऋतुबद्धं वसति वर्षावासं वा वसति तस्मिन् ग्रामे एवमसति लाभे अचित्तं प्रपाणकादिकं गृहीत्वा यदि यः श्रमणः श्रमणी वा ग्रामानुग्रामं द्रवेत्-क्रोशद्वयादूधै गच्छेत्-स श्रमणः श्रमणी वा आज्ञाभङ्गादिदोषान् प्राप्नोति ।। सू० ६ ॥
सूत्रम्--जे भिक्खू वियडंगालेइ गालावेइ गालियं आहटु दिज्जमाणं पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ॥ सू०७॥
छाया-यो भिक्षुर्विकृतं गलति गालयति गालितमाहृत्य दीयमानं प्रतिगृह्णाति प्रतिगृहन्तं वा स्वदते ॥ सू० ७॥
શ્રી નિશીથ સૂત્ર