________________
४१६
निशीथसूत्रे
तस्य तादृशस्य ग्लानस्य अर्थाय प्रयोजनाय गाढागाढकारणमाश्रित्येत्यर्थः यदि विकृतदत्तेर्ग्रहणावश्यकता लक्ष्येत तदा एकद्वित्रिदत्तीर्ग्रहीतुं कल्पते नाधिकमित्याह - 'परं तिहं' परं तिसृणाम् 'वियडदत्तीणं' विकृतदत्तीनाम् तत्र विकृतं - द्राक्षादिविकृत्या संपायमानं विकृतिकारकत्वाद् विकृतं तस्य विकृतस्य तिसृभ्यो दत्तिभ्योऽधिकम्, तत्र दत्तिरिति अविच्छिन्नं पतन्ती द्रवद्रव्यधारा गृह्यते, तथा च विकृतानामचित्तबहुमूल्यप्रपाणकद्राक्षासव कुमार्यासवादीनाम् अन्येषां वा तथाविधद्रवपदार्थानां दत्तित्रयादधिकम् 'पडिग्गा हेर' प्रतिगृह्णाति ग्लानप्रयोजनमासाद्य दत्तित्रयादधिकं विकृतं स्वीकरोति, तथा - 'पडिग्गार्हतं वा साइज्जइ' प्रतिगृह्णन्तं वा ग्लानप्रयोजनेनापि दत्तियादधिकं गृह्णन्तं श्रमणान्तरं वदते - अनुमोदते स प्रायश्चित्तभागी भवति ।
नात्र विकृतशब्दस्य मद्याद्यर्थः किन्तु विकृतस्य मद्याद्यर्थो निशीथचूण्या लभ्यते, तद्ग्रहणविधिश्च, तथाहि -तत्र भाष्ये यदुक्तम् - "वितियपदं गेलणे, विज्जुवएसे तहेव सिक्खाए । तेहि कारणेहिं, जयणाए कप्पती धेनुं । ६०३४ | ( पृ० २२० सन्मतिज्ञानपीठ आगरा मुदित)
तच्चूर्णिर्यथा: - ' वेज्जोए सेणगिलाणट्ठा घेप्पेज्ज कस्सति कोति वाही तेणेव उपसमति ति ण दोसो । गिलाणट्टा वा वेज्जो आणितो तस्सठ्ठा वा धिप्पेज्जा । पकप्पं वा सिक्खतो गहणं करेज्जा ||६०३४||
छाया - द्वितीयपदम् -- ग्लाने वैद्योपदेशे तथैव शिक्षायाम् । एतैः कारणैः वतनया कल्पते ग्रहीतुम् ||६०३४||
वैद्योपदेशेन ग्लानार्थं गृह्णीयात् कस्यापि कोऽपि व्याधिस्तेनैव उपशाम्पति इति न दोषः । ग्लानार्थ वा वैद्य आनीतः तस्यार्थ वा गृह्णीयात्, प्रकल्पं वा शिक्षन् ग्रहणं कुर्यात् ||६०३४ ॥ इति तन्मोहविजृम्भितम् । साधूनां तस्य सर्वथा निषिद्धत्वात् ।
अत्राह भाष्यकारः-
भाष्यम् – जो य भिक्खू गिलाणट्ठा, तिन्हं दत्तीण जं परं । गिण्हेज्जा गाहएज्जा वा आणाभंगाइ पावइ ॥ १ ॥
छाया - यश्च भिक्षुग्लनार्थं तिसृणां दत्तीनां यत् परम् । गृहीयाद् ग्राहयेद वा आज्ञाभङ्गादि प्राप्नोति ॥
अवचूरिः– यश्च कश्चिद्भिक्षुः श्रमणः श्रमणी वा ग्लानार्थ कुक्षिशूलादिरोगवतः श्रमणस्य प्रयोजनाय यदि ग्रहणीय मापद्येत तदा विसृणां विकृतदत्तीनाम् अचित्तद्रवसम्बन्धिनीनां परं त्रयादधिकं गृह्णीयात् - स्वीकुर्यात् ग्राहयेद् वाऽन्यद्वारा स श्रमणः श्रमणी वा आज्ञाभङ्गादिकं मिथ्यात्वं संयमविराधनामात्मविराधनां च प्राप्नोति तथा दत्तित्रयादधिकग्रहणे लोकानां तदुपरि अविश्वासः
"
શ્રી નિશીથ સૂત્ર