Book Title: Agam 24 Chhed 01 Nishith Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 513
________________ निशीथसूत्रे सूत्रम् -- जे भिक्खू असज्झाइए सज्झायं करेइ करेंतं वा साइज्जइ ॥ छाया -यो भिक्षुरस्वाध्यायिके स्वाध्यायं करोति कुर्वन्तं वा स्वदते || सू० १५ || चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा ‘असज्झाइए’ अस्वाध्यायिके काले सूर्योदयादनन्तरमर्द्धमुहूर्त्तसमये सूर्यास्तसमयात्पूर्वं अर्द्धमुहूर्त्तसमये तथा रात्रावपि सूर्यास्तसमयादनन्तरमर्द्धमुहूर्तसमये, निशावसानेऽपि सूर्योदयात्पूर्वममुहूर्त्तसमये, एवं दिवा रात्रौ च चतुर्षु अस्वाध्यायकालेषु 'सज्झायं' स्वाध्यायं सूत्रार्थयोर्वाचनालक्षणम् 'करेइ' करोति तथा 'करेंतं' वा साइज्जइ' कुर्वन्तं वा श्रमणान्तरं स्वदते अनुमोदते तस्याज्ञाभङ्गादिका दोषा भवन्ति ॥ सू० १५॥ सूत्रम् - जे भिक्खू अप्पणो असज्झाइए सज्झायं करेइ करेंतं वा साइज्जइ || सू० १६ ॥ छाया -यो भिक्षुरात्मनोऽस्वाध्यायिके स्वाध्यायं करोति कुर्वन्तं वा स्वदते ॥ चूर्णी 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'अप्पणो असज्झाइए' आत्मनः स्वकीयशरीरसंबन्धिनि अस्वाध्यायिके काले, तत्र स श्रमणस्यैकविधः व्रणाशभगन्दरादिरूपः, श्रमण्या द्विविधः व्रणादिसमुत्थः १ ऋतुसमुत्थश्च २ तस्मिन् एतादृशे आत्मनः स्वशरीरस्य सम्बन्धिनि अस्वाध्यायिके काले 'सज्झायं' स्वाध्यायं करोति तथा 'करेंतें वा साइज्जइ' आत्मनोऽस्वाध्यायिकाले स्वाध्यायं कुर्वन्तं वा श्रमणान्तरं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १६॥ ४२२ सूत्रम् — जे भिक्खू हेटिल्लाई समोसरणाई अवाएत्ता उवरिल्लाई समोसरणाई वाएइ वाएंतं वा साइज्जइ ॥ सू० १७ ॥ छाया - -यो भिक्षुरधस्तनानि समवसरणानि अवाचयित्वा उपरितनानि समवसर णानि वाचयति वाचयन्तं वा स्वदते ||सू० १७|| चूर्णी – 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद भिक्षुः श्रमणः श्रमणी वा 'हेठिल्लाई समोसरणाई' अघस्तनानि आद्यानि समवसरणानि, तत्र समवसरणमिति मेलनं संमिश्रणं वा, अत्र समवसरणं सूत्रार्थयोः जीवाजीवादिनवपदार्थानां वा संमेलनम्, ततः समवसरणानि संमिलितसूत्रार्थरूपाणि 'अवाएत्ता' अवाचयित्वा पूर्वसूत्रविषयिणीं वाचनामदत्वा पूर्वसूत्रमनधीत्येत्यर्थः 'उवरिल्लाई समोसरणाई' उपरितनानि - उत्तरकालिकानि समवसरणानि सूत्रार्थरूपाणि 'वाई' वाचयति-परेम्यो वाचनां ददाति एवं 'वाएंतं वा साइज्जइ' वाचयन्तमन्यं वा श्रमणान्तरं स्वदतेअनुमोदते स प्रायश्चित्तभागी भवति, तत्र यत् यस्यादिमं सूत्रम् तत् तस्याधस्तनमिति कथ्यते, શ્રી નિશીથ સૂત્ર

Loading...

Page Navigation
1 ... 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550