Book Title: Agam 24 Chhed 01 Nishith Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३९२
निशीथसूत्रे प्रतिगृह्णन्तं वा श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० २४४ ॥ एवं 'आउपइडियं' अप्कायप्रतिष्ठितं-सचित्तमिश्राप्कायोपरिस्थितमशनादिकम् ॥ सू० २४५ ॥ 'तेउपइटियं' तेजःप्रतिष्ठितं तेजस्कायोपरि स्थितमशनादिकम् ।। सू० २४६ ॥ 'वणप्फइकायपइट्टियं' वनस्पतिकायप्रतिष्ठितं हरितकायोपरिस्थितम् उपलक्षणाद् व्रीह्यादिबीजधान्यादिप्रतिष्ठितं वा ऽशनादिकं यो भिक्षुः प्रतिगृह्णाति प्रतिगृह्णन्तं वा स्वदते स प्रायश्चित्तभाग् भवति । अत्र शिष्यः पृच्छति-हे गुरो ! यदि पृथिव्यादिप्रतिष्ठितमशनादिकं गृह्णाति तदा को दोषः, न स्पर्शमात्रेण कस्यापि जीवस्य पीडा संभवति ? इति, आचार्चः प्राह-हे शिष्य ! भवत्येव तज्जीवानां पीडा, यत् श्रमणार्थ श्रावकः पात्रादिकमवतारयति इति भवत्यवतारणादिसमये संघट्टनं, संघट्टनमात्रेणैव ते एकेन्द्रिया महती वेदनामनुभवन्ति, यथा कश्चित् जराजीर्णदेहो वृद्धो बलवता तरुणयमलपाणिना शिरसि ताडयते तत्र यादृशी वेदनामनुभवति वृद्धस्ततोऽप्यधिकतरां वेदना संघट्टनमात्रेणैव एकेन्द्रियजीवा अनुभवन्ति तस्मात् कारणात् एकेन्द्रियजीवानां संघट्टनं येन भवेत् तथा न कर्तव्यमित्यतः सूत्रे तन्निषेधः कृत इति । एवं यो हि दोषः पृथिव्यादिप्रतिष्ठिताऽशनादिग्रहणे भवति स एव दोषो नियमतः सचित्तपृथिव्यादिप्रतिष्ठितवस्रपात्रादिग्रहणेऽपि ज्ञातव्यः ॥ सू० २४७ ॥
सूत्रम्--जे भिक्खू अच्चुसिणं असणं वा पाणं वा खाइमं वा साइमं वा मुहेण वा सुप्पेण वा विहुणणेण वा तालियंटेण वा पत्तेण वा पत्तभंगेण वा साहाए वा साहाभंगेण वा पेहुणेण वा पेहुणहत्थेण वा चेलेण वा चेलकण्णेण वा हत्थेण वा फुमित्ता वीइत्ता आहटु दिज्जमाणं पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ॥ सू० २४८॥
छाया-यो भिक्षुरत्युष्णमशन वा पानं वा खाद्यं वा स्वाद्यं वा मुखेन वा सूर्पण वा विधुननेन वा तालवृन्तेन वा पत्रेण वा पत्रभङ्गेन वा शाखया वा शाखाभङ्गेन वा पेहुणेन वा पेहुणहस्तेन वा चैलेन चेलकर्णेन वा हस्तेन वा फूत्कृत्य वीजयित्वा आहृत्य दोयमान प्रतिगृह्णाति प्रतिगृह्णन्तं वा स्वदते ॥ सू० २४८ ॥
चूर्णी—'जे भिक्ख' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'अच्चसिणं' अत्युष्णम्-अतिशयोष्णम् 'असणं वा' अशनं वा 'पाणं वा' पानं वा 'खाइमं वा' खाद्यं वा 'साइम' स्वाद्यं वा 'मुहेण वा' मुखेन वा मुखवायुनेत्यर्थः 'मुप्पेण वा' सूर्पण वा सूर्पवायुना इत्यर्थः, 'विहुणणेण वा' विधुननेन वा-व्यजनेन 'पंखा' इति लोकप्रसिद्धेन तदीयवायुनेत्यर्थः 'तालियंटेण वा तालवृन्तेन वा तालव्यजनेन तदीयवायुनेत्यर्थः, 'पत्तण वा' प ण वा
શ્રી નિશીથ સૂત્ર