Book Title: Agam 24 Chhed 01 Nishith Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 484
________________ चूर्णिभाष्यावचूरिः उ० १७ सू० २४८-२५१ . फूत्कृतसचित्ताशनादिग्रहणनिषेधः ३९३ 'पत्तभंगेण वा' पत्रभङ्गेन वा-पत्रखण्डेन इत्यर्थः 'साहाए वा' शाखया वा-वृक्षावयवरूपया 'साहाभंगेण वा शाखाभङ्गेन-शाखाखण्डेनेत्यर्थः, 'पेहुणेण वा' मयूरपिच्छेन वा 'पेहुणहत्थेण वा मयूरपिच्छपुजेन वा 'चेलेण वा' चेलेन वा-वस्त्रेण वा 'चेलकण्णेण वा चेलकर्णेन वा वस्त्रावयवेन वस्त्रखण्डेनेत्यर्थः, हत्थेण वा' हस्तेण वा-हस्तसञ्चालितवायुना 'फुमित्ता' फूत्कृत्य मुखेन फूत्कारं कृत्वा 'बीइत्ता' बीजयित्वा-व्यजनादिना शीतलीकृत्य 'आहटु' आहत्य-आनीय हस्ते गृहीत्वेत्यर्थः 'दिज्जमाणं' दीयमानम् 'पडिग्गाहेइ' प्रतिगृह्णाति-स्वीकरोति तथा 'पडिग्गाहेतं वा साइज्जई' प्रतिगृह्णन्तं वा-चूल्ह्यादितोऽवतारितमयुष्णमशनादिकं मुखादिवायुना बीजयित्वा-शीतलीकृत्य दीयमानमशनादिकं गृह्णन्तं श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति । तथा तस्याऽऽज्ञाभङ्गादिका दोषा अपि भवन्ति ॥ सू० २४८ ॥ सूत्रम्-जे भिक्खू असणं वा पाणं वा खाइमं वा साइमं वा अच्चुसिणं पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ॥ मू० २४९॥ छाया-यो भिक्षुरशनं वा, पानं वा, खाद्यं वा स्वायं अत्युष्णं प्रतिगृह्णाति प्रतिगृह्णन्तं वा स्वदते ॥ सू० २४९ ॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'असणं वा' अशनं वा 'पाणं वा' पानं वा 'खाइमं वा' खाद्यं वा 'साइमं वा' स्वाद्यं वा 'अच्चुसिणं' अत्युष्णम्-अत्यन्तोष्णं येन हस्तादि दह्यने तादृशमशनादिकं 'पडिग्गाहेइ' प्रतिगृह्णाति-स्वीकरोति तथा 'पडिग्गाहें तं वा साइज्जई' प्रतिगृह्णन्तं वा श्रमणान्तरं स्वदते-अनुमोदते य प्रायश्चित्तभागी भवति । यतः-अत्युष्णग्रहणे वायुकायसंपातिमद्वीन्द्रियादीनां हिंसासद्भावात् संयमविराधना, हस्तादिदहनसद्भावादात्मविराधना च भवतीति तादृशाशनादिकं न ग्राह्यम् ॥ सू० २४ ॥ सूत्रम्--जे भिक्खू उस्सेइमं वा संसेइमं वा चाउलोदगं वा वारोदगं वा तिलोदगं वा तुसोदगं वा जवोदगं वा आयामं वा सोवीरं वाअंबकंजियं वा सुद्धवियडं वा अहुणाधोयं अणंबिलं अपरिणयं अवुक्कंतजीवं अविद्धत्थं पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ॥ सू० २५०॥ छाया-यो भिक्षुः उत्सेकिम वा संसेकिम वा तण्डुलोदकं वा वारोदकं वा तिलोदकं वा तुषोदकं वा यवोदकं वा आचामं वा सौवीरं वा आम्रकाग्जिकं वा शुद्धविकटं वा अधुनाधौतम् अनाम्लम् अपरिणतम् अव्युत्क्रान्तजीवम् अविध्वस्तं प्रतिगृह्णाति प्रतिगृह्णन्तं वा स्वदते ॥ सू० २५० ॥ શ્રી નિશીથ સૂત્ર

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550