Book Title: Agam 24 Chhed 01 Nishith Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 493
________________ ४०२ निशीथसूत्रे साइज्जई' दूरोहन्तं वा स्वदते, यो हि श्रमणः जलाशयपारगमनाय नौकामधिरोहति तमनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा अपि भवन्ति । अत्राह भाष्यकारः-- भाष्यम्--'णावारोहण साहुस्स अणहाए असेयसे । कोउहल्लेण नारोहे, नन्नत्थागाढकारणा ॥१॥ छाया-नौकाधिरोहणं साधोरनर्थाय अश्रेयसे । ___कौतूहलेन नारोहेत्, अन्यत्रागाढकारणात् ॥१॥ अवचूरिः-'साहुस्स' साधोः नावारोहण मनर्थाय-अश्रेयसे अकल्याणाय च भवति तत्र षट्कायविराधनाया अवश्यम्मावात् , अथवा अनर्थाय-अप्रयोजनाय प्रयोजनं विना साधोन वारोहणम् अश्रेयसे-अमोक्षाय संसाराय भवत्येव अतः कौतूहलेन शब्दश्रवणादिकुतूहलमाश्रित्य साधुः कदापि नावं नारोहेत्, कदेत्याह-आगाढकारणादन्यत्र- गाढागाढकरणं विना नारोहेत् । तत्र गाढागाढकारणं च गुरुसेवाग्लानवैयावृत्त्यादिकम् ॥ सू० १ ॥ सूत्रम्-जे भिक्खू णावं किणइ किणावेइ कीयं आहटु दिज्जमाणं दुरूहइ दुरुहंतं वा साइज्जइ ॥ सू० २ ॥ छाया-यो भिक्षुः नौकां क्रीणाति-क्रापयति क्रीतमाहृत्य दीयमानं दूरोहति दूरोहन्तं वा स्वदते ॥ सू०२॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'णावंकिणइ' नौका क्रोणाति-मूल्यं दत्वा स्वीकरोति 'किणावेई' कापयति - मूल्यं दत्वा अन्यद्वारा नौकायाः क्रयणं कारयति, तथा 'कीयं आहटु दिज्जमाणं' क्रीतमाहृत्य दीयमानम् अन्यः कोऽपि मूल्यं दत्वा नौकां क्रीणाति, स च क्रीत्वा अभिमुखम् आहृत्य श्रमणाय ददाति तत् क्रीतमाहृत्य दीयमानमिति कथ्यते, क्रयक्रीतामभिमुमानीय दीयमानां नौकां श्रमणः श्रमणी वा 'दख्हई' दूरोहति-तदधिरोहणं करोति, तथा 'दुरूहंतं वा साइज्जई' दूरोहन्तं वा-नौकाया अपरि अधिरोहणं कुर्वन्तं श्रमणान्तरं वा स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥सू० २॥ सूत्रम्-एवं जा चउद्दसमे उद्देसे पडिग्गहगमो सो णेयवो जाव अच्छेज्जं अणिसिहं अभिहडमाहटु दिज्जमाणं दूरूहइ दूरुहंतं वा साइज्जइ ॥ सू०३-५॥ શ્રી નિશીથ સૂત્ર

Loading...

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550