Book Title: Agam 24 Chhed 01 Nishith Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 504
________________ ॥ एकोनविंशतितमोद्दशकः || अष्टादशोदेशकं व्याख्याय अवसर प्राप्त एकोनविंशतितमोदेशको व्याख्यायते । तत्र एकोनविशततमोद्देशकादिसूत्रस्य अष्टादशोदेशकान्तिमसूत्रेण सह कः सम्बन्धः ? इत्ययाह भाष्यकारः भाष्यम् -- अट्ठारसे निसिद्धं जं, तं चेवेत्थ निसिज्झ । पुन्वपच्छिममुत्ताणं, संबंधो इमो इहें ||१|| छाया -- अष्टादशे निषिद्धं यत् तदेवात्र निषिध्यते । पूर्वपश्चिम सूत्रयोः सम्बन्धोऽयमिह ॥ १ ॥ अवचूरि :-- अष्टादशे उद्देशके यद् वस्तु निषिद्धं यस्य वस्तुनो निषेधः कृतः तदेव वस्तु अत्र एकोनविंशतितमे उद्देशके निषिध्यते, अयं भावः यः श्रमणः श्रमणी वा ऋतुबद्धे वर्षावासे वा काले वस्त्रादिलाभभावनया निवास करोति स श्रमणः श्रमणी वा यतनायुक्तोऽपि प्रमादं लभते, एवं प्रकारेण अष्टादशोद्देशकस्यान्तिमभागे प्रमाद एव प्रदर्शितः, अत्रापि एकोनविंशतितमो देशकस्यादिसूत्रे प्रमाद एव प्रदर्श्यते, अयमेव - एककार्यकारित्वरूप एव सम्बन्धः पूर्वपश्विमसूत्रयोः अष्टादशोदेशकान्तिमसूत्रकोनविंशतितमो देशकादिसूत्रयोः सम्बन्धो भवति, तदनेन सम्बन्धेन आयातस्य प्रकृतो देशकप्रथमसूत्रस्य व्याख्यानं प्रस्तूयते । तत्र यद्यपि क्रयक्रीतादिवस्तुनो निराकरणं पूर्व कृतमेव तथापि बहुमूल्य वस्तु साघोरकल्पनीयं भवतीति तद्ग्रहणे महान् दोष आषयते इति ज्ञापनाय पुनरप्याह सूत्रम् — जे भिक्खू वियर्ड किणइ किणावेइ कीयं आहटु दिज्जमाणं पडिग्गाहे पडिग्गार्हेतं वा साइज्जइ ॥ सू० १ ॥ छाया - -यो भिक्षुर्विकृतं क्रीणाति क्रापयति क्रीतमाहृत्य दीयमानं प्रतिगृद्धाति प्रतिगृहन्तं वा स्वदते ॥ सू० १ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'विय किrs' विकृतं क्रीणाति, तत्र विकृतं विकृत्या संपाद्यमानं व्यपगतजीवमचित्तं प्रपाणकादिकं वस्तु यत् साधूनां साध्वीनां वा ग्रहीतुं कल्पते तादृशमचित्तमपि प्रपाणकादि वस्तु बहुमूल्यं क्रीणातिमूल्यं दत्वा स्वयमेव क्रयणं करोति मूल्यं दत्वा स्वीकरोतीत्यर्थः 'किणावेइ' क्रापयति, अचित्तबहुमूल्यप्रपाणकादि वस्तुनः परद्वारा मूल्यं दापयित्वा क्रयणं कारयति तथा 'कीयमाहट्टु दिज्जमाणं' कीतमाहृत्य दीयमानम् अन्यः - कोऽपि श्रमणार्थ मूल्यं दत्त्वा प्रपाणकादि क्रीणाति तद्वस्तु अभिमुख શ્રી નિશીથ સૂત્ર

Loading...

Page Navigation
1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550