Book Title: Agam 24 Chhed 01 Nishith Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
निशीथसूत्रे
४१४
मागत्य श्रमणाय समर्पयति तादृशं दीयमानं वस्तु यः श्रमणः श्रमणी वा 'पडिग्गाहेइ' प्रतिगृह्णाति - स्वीकरोति तथा 'पडिग्गाहेतं वा साइज्जइ' प्रतिगृह्णन्तं वा स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति ।। सू० १ ॥
सूत्रम् - जे भिक्खू वियडं पामिच्चेइ पामिच्चावेइ पामिच्चं आहट्ट दिज्जमाणं पडिग्गाहेइ पडिग्गार्हतं वा ॥ सू० २ ॥
छाया - यो भिक्षुः विकृतं प्रामित्यति प्रामित्ययति प्रामित्यमाहृत्य दीयमानं प्रतिगृह्णाति प्रतिगृह्णन्तं वा स्वदते ॥ सू० २ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'वियडं' विकृतं बहुमूल्यमचित्तं श्रमणानां श्रमणीनां वा कल्पनीयं प्रपाणकादिकं 'पामिच्चेइ' प्रामित्यति प्रतिप्रदानप्रतिज्ञया ग्रहणं करोति उद्धाररूपेण गृह्णातीत्यर्थः 'पामिच्चावेई ' प्रामित्ययति-उद्धाररूपेण परद्वारा ग्रहणं कारयति तथा 'पामिच्चं आहट्टु दिज्जमानं पडिग्गाहेइ' प्रामित्यमाहृत्य दीयमानं प्रतिगृह्णाति तथा 'पडिग्गार्हतं वा साइज्जइ' प्रतिगृह्णन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ।। सू० २ ॥
सूत्रम् -- जे भिक्खू विडं परियई परियट्टावेइ परियट्टियं आहट्ट दिज्जमाणं पडिग्गाहेइ पडिग्गार्हतं वा साइज्जइ ॥ स० ३ ॥
छाया -यो भिक्षुः विकृतं परिवर्त्तते परिवर्तयति परिवर्त्तितमाहृत्य दीयमानं प्रतिगृह्णाति प्रतिगृह्णन्तं वा स्वदते ।। सू० ३ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'वियर्ड' विकृतमचित्तं व्यपगतजीवम् द्राक्षासवादिप्रपाणकं बहुमूल्यम् ' परियहेइ' परिवर्तते, तत्र परिवर्तनं परावर्त्तनम् स्वकीयाशनवस्त्रादेरन्यस्मै समर्पणम् अन्यस्य प्रपाणकादिकस्य स्वयं ग्रहणम्, स्वकीयमशनवस्त्रादिकमन्यस्मै ददाति अन्यस्य प्रपाणकादि द्रवदव्यं स्वयं गृह्णाति एवं परिवर्तनं करोति 'परियद्यावेइ' परिवर्तयति परद्वारा परावर्तनं कारयति तथा परियट्टिय आहटुदिज्जमाणं पडिग्गाहेइ' परिवर्त्तितमाहृत्य दीयमानं प्रतिगृह्णाति, अन्यः कोऽपि समीचीनाशनक्वादीनां परावर्तनं कृत्वा तादृशं प्रपाणकादिवस्तुजातं गृहीत्वा श्रमणाय ददाति तादृशं दीयमानं तत् प्रपाणकादिकं यः श्रमणः श्रमणी वा प्रतिगृह्णाति स्वीकरोति स्वीकारयति वा तथा 'पडिग्गार्हतं वा साइज्जइ' प्रतिगृह्णन्तं वा परावर्त्तिताचित्तबहुमूल्यद्रवपदार्थस्य ग्रहणं कुर्वन्तं श्रमणान्तरं यः स्वदते अनुमोदते स प्रायश्चित्तभागो भवति ॥ सू० ३ ॥
શ્રી નિશીથ સૂત્ર
Loading... Page Navigation 1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550