Book Title: Agam 24 Chhed 01 Nishith Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 506
________________ चूर्णिभाष्यावचूरिः उ०१९ सू० १-५ विकृतस्य क्रयणकापणादिनिषेधः ४१५ सूत्रम् -- जे भिज्खु अच्छेज्जं अणिसिद्धं अभिहडं आहट्ट दिज्ज - माणं पडिग्गाहेइ पडिग्गार्हतं वा साइज्जइ ॥ सू० ४ ॥ छाया - यो भिक्षुराच्छद्यमनिसृष्टमभिहृतमाहृत्य दीयमानं प्रतिगृह्णाति, प्रतिगृतं वा स्वदते ॥सू० ४ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अच्छेज्ज' आच्छेद्यं बलात्कारपूर्वकं गृहीतम् १, 'अणिसिद्ध' अनिसृष्टम् वस्तुस्वामिन मननुज्ञाप्य गृहीतं यत् तत् अनिसृष्टम् २, 'अभिहडं आहट्टु' अभिहृतम् - अन्यप्रदेशादानीतं संमुखमागत्य 'दिज्जमाणं' दीयमानम् 'पडिग्गा हेइ' प्रतिगृह्णाति परेण वा प्रतिग्राहयति 'पडि - तं वा साइज्जइ' प्रतिगृह्णन्तं वा स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति ॥ अत्राह भाष्यकार ः— विडं बहुमुल्लं जं, कीयाइ भेयगं जई । fruts मोहओ जो उ, आणाभंगाइ पावई ॥ १ ॥ छाया - विकृतं बहुमूल्यं यत् क्रीतादिभेदकं यतिः । गृह्णाति मोहतो यस्तु आज्ञाभङ्गादि प्राप्नोति ॥ १ ॥ अवचूरिः --- यः कश्चित् यतिः श्रमणः श्रमणी वा मोहतो - मोहनीय कर्मोदयात् विकृतं बहुमूल्यं क्रीतादिभेदभिन्नम् आदिशब्देन प्रामित्यमाच्छेयमनिसृष्टमभिहृतमित्येवं भेदयुक्तं गृद्वाति, तादृशस्य ग्रहणं स्वयं कुर्यात् कारयेद्वा तत् क्रीतादिकमभिमुखमानीय दीयमानं स्वीकुर्यात् स्वीकुर्वन्तमनुमोदते तथा अशनवस्त्रादिना परिवर्तनं करोति कारयति वा तथा परेण दीयमानं परिवर्तितद्रव्यग्रहणं कुर्वाणं श्रमणान्तरं स्वदते - अनुमोदते स आज्ञाभङ्गादिकं मिथ्यात्वं संयमविराधनमात्मविराधनं च प्राप्नोति तस्मात् क्रीतादिभेदयुक्तस्य द्रव्यस्य ग्रहणं स्वयं न कुर्यात् न वा कारयेत् न वा कुर्वन्तं श्रमणान्तरं कमपि अनुमोदयेदिति ॥ सू० ४ ॥ सूत्रम् - जे भिक्खू गिलाणस्स अट्ठाए परं तिन्हं वियडदत्तीणं पडिग्गा डिग्गा वा साइज्जइ ॥ सू० ५ ॥ छाया -- यो भिक्षुग्लनस्यार्थाय परं तिसृणां विकृतदत्तीनां प्रतिगृदाति प्रतिगृहन्तं वा स्वदते ॥ सू० ५ ॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'गिलाणस्स अट्ठाए' ग्लानस्यार्थाय तत्र ग्लानः:- सद्योघातिकुक्षिशूलादि रोगातङ्कः परिपीडितः, શ્રી નિશીથ સૂત્ર

Loading...

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550