Book Title: Agam 24 Chhed 01 Nishith Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 502
________________ चूणिभाष्यावचूरिः उ० १८.सू० ३४-९१ उद्देशकपरिसमाप्तिः ४११ ‘णेयव्वो' ज्ञातव्यः-वस्त्रविषयको गमः सर्वोऽपि प्रतिग्रहगमवदेवात्र वक्तव्यः । कियत्पर्यन्तमित्याह'जाव' इत्यादि । 'जाव' यावत् 'जे भिक्खू वत्थनीसाए वासावासं वसई' यो भिक्षुः वस्त्रनिश्रया वर्षावासं वसति, 'वसंतं वा साइज्जइ' वसन्तं वा स्वदते-अनुमोदते स प्रायश्चित्तभागी भवतीति । प्रतिग्रहगमापेक्षया यद्वैलक्षण्यं तदाह -'णवरं इत्यादि । 'णवरं' नवरं केवलं विशेष एतावानेव यत् प्रतिग्रहगमे पात्रस्य कोरणं तीक्ष्णलोहादिशलाकया आकृतिविशेषविलिखनं तिद्वषयकमेकं पञ्चपञ्चाशत्तम सूत्रं प्रोक्तम् , वस्त्रगमे 'कोरणं नत्थि' कोरणं नास्ति एकं पञ्चपञ्चाशत्तमं कोरणसूत्रं न वक्तव्यमिति भावः वस्त्रे कोरणासंभवादिति । अत्र चतुर्दशोदेशकप्रथमसूत्रादारभ्य एकोनषष्टिसूत्रपर्यन्तानि कोरणसूत्रमन्तरेण अष्टपञ्चाशसंख्यकानि सूत्राणि अत्राष्टादशोदेशके पठितव्यानीति भावः ॥ सू० ३४-९० अत्राह भाष्यकार:-- जो उ चउद्दसोदेसे, गमो वुत्तो पडिग्गहे । कोरणेण विणा सव्वो, वत्थेऽद्वारसमे मओ ॥ छाया-यस्तु चतुर्दशोद्देशे गमः प्रोक्तः प्रतिग्रहे । कोरणेन विना सर्वो वस्त्रेऽष्टादशके मतः ॥ अवचरिः-- एतस्यैव निशीथसूत्रस्य चतुर्दशोदेशके प्रतिग्रहे पात्रं दारुपात्रमधिकृत्य यो गमः कृतः स एव सर्वः संपूर्णोऽपि कोरणसूत्रं परित्यज्य अष्टपञ्चाशत्सूत्रात्मकोऽत्र अष्टादशोदेशके वस्त्रे वस्त्रमधिकृत्य मतो ज्ञातव्यः । अयं भावः-'जे भिक्खू वत्थं किणइ किणावेइ कीयं आहहु दिज्जमाणं पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ' इत्यारभ्य 'जे भिक्खू वत्थनीसाए वासावासं वसइ वसंतं वा साइज्जइ' इतिपर्यन्तानि अष्टादशोदेशकसूत्राणि चतुर्दशोद्देशके यथा व्याख्यातानि ते व प्रकारेण अत्रापि तेषां सूत्राणां व्याख्यानं कर्तव्यम् , उभयत्रैतावानेव भेदो यत् चतुर्दशोदेशके पात्रं दारुकाघधिकृत्य सूत्रप्रणयनं तद्व्याख्यानं च कृतम् , अत्र अष्टादशोदेशके तु पात्रस्थाने वस्त्रं निवेशयित्वा सूत्राणां प्रणयनं तथा तद्वयानं च कर्त्तव्यम् , विशेषजिवृक्षुभिश्चतुर्दशोद्देशकस्यैव अवलोकनं कर्त्तव्यमिति ॥ सू० ३४-९० ॥ सूत्रम्-तं सेवमाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं उग्घाइयं ॥ सू० ९१॥ ॥ निसीहज्झयणे अट्ठारसमो उद्देसो समत्तो ॥ १८ ॥ छाया--तत् सेवमान आपद्यते चातुर्मासिकं परिहारस्थानमुद्घातिकम् ॥१८॥ ॥ निशीथाध्ययने अष्टादशोद्देशकः समाप्तः ॥१८॥ શ્રી નિશીથ સૂત્ર

Loading...

Page Navigation
1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550