________________
चूणिभाष्यावचूरिः उ० १८.सू० ३४-९१
उद्देशकपरिसमाप्तिः ४११ ‘णेयव्वो' ज्ञातव्यः-वस्त्रविषयको गमः सर्वोऽपि प्रतिग्रहगमवदेवात्र वक्तव्यः । कियत्पर्यन्तमित्याह'जाव' इत्यादि । 'जाव' यावत् 'जे भिक्खू वत्थनीसाए वासावासं वसई' यो भिक्षुः वस्त्रनिश्रया वर्षावासं वसति, 'वसंतं वा साइज्जइ' वसन्तं वा स्वदते-अनुमोदते स प्रायश्चित्तभागी भवतीति । प्रतिग्रहगमापेक्षया यद्वैलक्षण्यं तदाह -'णवरं इत्यादि । 'णवरं' नवरं केवलं विशेष एतावानेव यत् प्रतिग्रहगमे पात्रस्य कोरणं तीक्ष्णलोहादिशलाकया आकृतिविशेषविलिखनं तिद्वषयकमेकं पञ्चपञ्चाशत्तम सूत्रं प्रोक्तम् , वस्त्रगमे 'कोरणं नत्थि' कोरणं नास्ति एकं पञ्चपञ्चाशत्तमं कोरणसूत्रं न वक्तव्यमिति भावः वस्त्रे कोरणासंभवादिति । अत्र चतुर्दशोदेशकप्रथमसूत्रादारभ्य एकोनषष्टिसूत्रपर्यन्तानि कोरणसूत्रमन्तरेण अष्टपञ्चाशसंख्यकानि सूत्राणि अत्राष्टादशोदेशके पठितव्यानीति भावः ॥ सू० ३४-९०
अत्राह भाष्यकार:--
जो उ चउद्दसोदेसे, गमो वुत्तो पडिग्गहे । कोरणेण विणा सव्वो, वत्थेऽद्वारसमे मओ ॥ छाया-यस्तु चतुर्दशोद्देशे गमः प्रोक्तः प्रतिग्रहे ।
कोरणेन विना सर्वो वस्त्रेऽष्टादशके मतः ॥ अवचरिः-- एतस्यैव निशीथसूत्रस्य चतुर्दशोदेशके प्रतिग्रहे पात्रं दारुपात्रमधिकृत्य यो गमः कृतः स एव सर्वः संपूर्णोऽपि कोरणसूत्रं परित्यज्य अष्टपञ्चाशत्सूत्रात्मकोऽत्र अष्टादशोदेशके वस्त्रे वस्त्रमधिकृत्य मतो ज्ञातव्यः । अयं भावः-'जे भिक्खू वत्थं किणइ किणावेइ कीयं आहहु दिज्जमाणं पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ' इत्यारभ्य 'जे भिक्खू वत्थनीसाए वासावासं वसइ वसंतं वा साइज्जइ' इतिपर्यन्तानि अष्टादशोदेशकसूत्राणि चतुर्दशोद्देशके यथा व्याख्यातानि ते व प्रकारेण अत्रापि तेषां सूत्राणां व्याख्यानं कर्तव्यम् , उभयत्रैतावानेव भेदो यत् चतुर्दशोदेशके पात्रं दारुकाघधिकृत्य सूत्रप्रणयनं तद्व्याख्यानं च कृतम् , अत्र अष्टादशोदेशके तु पात्रस्थाने वस्त्रं निवेशयित्वा सूत्राणां प्रणयनं तथा तद्वयानं च कर्त्तव्यम् , विशेषजिवृक्षुभिश्चतुर्दशोद्देशकस्यैव अवलोकनं कर्त्तव्यमिति ॥ सू० ३४-९० ॥
सूत्रम्-तं सेवमाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं उग्घाइयं ॥ सू० ९१॥
॥ निसीहज्झयणे अट्ठारसमो उद्देसो समत्तो ॥ १८ ॥ छाया--तत् सेवमान आपद्यते चातुर्मासिकं परिहारस्थानमुद्घातिकम् ॥१८॥
॥ निशीथाध्ययने अष्टादशोद्देशकः समाप्तः ॥१८॥
શ્રી નિશીથ સૂત્ર