________________
४१२
निशीथसूत्रे चूर्णी- 'तं सेवमाणे" इत्यादि । 'तं सेवमाणे' तत् अष्टादशोदेशकोक्तं प्रायश्चित्तस्थानम् 'सेवमाणे' सेवमानः-तादृशप्रायश्चित्तस्थानस्य प्रतिसेवनां कुर्वन् श्रमणः श्रमणी वा 'आवज्जइ आपद्यते-प्राप्नोति-'चाउम्मासियं' चातुर्मासिकम् 'परिहारट्ठाणं' परिहारस्थानं-प्रायश्चित्तम् 'उग्घाइयं' उद्घातिकं लघुकम्, नौकारोहणत आरभ्य वस्त्रनिश्रया वर्षावासनिवासपर्यन्तोतेषु अकृत्यस्थानेषु मध्यात् एकं द्विकम् अनेक सर्व वा पापस्थानं सेवमानः श्रमणः श्रमणी वा लघुचातुर्मासिकं प्रायश्चित्तं प्राप्नोति ॥ सू० ९१॥ इति श्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापक - प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त"जैनशास्त्राचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालबति-विरचितायां "निशीथसूत्रस्य" चूर्णिभाष्यावचूरिरूपायां व्याख्यायाम् अष्टादशोद्देशकः समाप्तः ॥१८॥
શ્રી નિશીથ સૂત્ર