SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ AAAAAAAAAAAAAAAAAAAAAA निशीथसूत्रे ____ अवचूरिः-- यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा षोडशानां च भङ्गानां मध्ये 'जे भिक्खू णावागओ णावागयस्स असणं ४ पडिम्गाहेइ पडिग्गाहेंतं वा साइज्जइ' इत्यारभ्य 'जे भिक्खू थलग थलगयस्स असणं ४ पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ' एतत्पर्यन्तषोडशसूत्रप्रतिपादितषोडशमङ्गमध्यात् यस्मात् कस्माच्चिदपि भङ्गात् यस्मात्कस्माच्च कारणात् अशनादिकं चतुर्विधमाहारजातं गृह्णाति गृह्णन्तं वा अनुमोदते स आज्ञाभङ्गादिकान् दोषान् आज्ञाभङ्गानवस्थामिथ्यात्वसंयमात्मविराधनादिदोषान् प्राप्नोति, तस्याज्ञाभङ्गादिका दोषा भवन्तीत्यर्थः ।। सू० ३२॥ सूत्रम्-जे भिक्खू वत्थं किणइ किणावेइ कीयमाहटु दिज्जमाणं पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ॥ सू० ३३॥ छाया--- यो भिक्षुर्वस्त्र क्रीणाति क्रापयति क्रीतमाहृत्य दीयमानं प्रतिगृह्णाति प्रतिगृहन्तं वा स्वदते ॥ सू० ३३ ॥ चूर्णी-- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'वत्थं' वस्त्रम् चोलपट्टकादिकं च किणई' क्रीणाति-मूल्यं दत्त्वा दापयित्वा वा स्वबुद्ध्या विविच्याऽऽपणादितः क्रयणं करोति 'किणावेई' क्रापयति स्वयमेव मूल्यं दत्वा परेण वा मूल्यं दापयित्वा परद्वारा वस्त्रस्य क्रयणं कारयति, तथा, 'कीयमाहटु दिज्जमाणं पडिग्गाहेइ' क्रीतमाहृत्य दीयमानं प्रतिगृह्णाति, कोऽपि दाता वस्त्रं क्रीत्वा अभिमुखमागत्य श्रमणाय श्रमण्यै वा तादृशवस्त्रं ददाति, तच्च वस्त्रं साधुः स्वीकरोति तथा 'पडिग्गाहेंतं वा साइज्जइ' प्रतिगृह्णन्तं वा क्रयणं कुर्वन्तं कापयन्तं क्रीतमभिमुखमागत्य दीयथानं स्वीकुर्वन्तं श्रमणान्तरं यः स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याऽऽज्ञाभङ्गादिका दोषा अपि भवन्ति ॥ सू० ३३ ॥ सूत्रम्-एवं चउद्दसमे उद्देसए पडिग्गहे जो गमो भणिओ सो चेव इहंपि वत्थेण णेयव्वो जाव जे भिक्खू वत्थनीसाए वासावासं वसइ वसंतं वा साइज्जइ, णवरं कोरणं णत्थि । सू० ३४-९०॥ छाया एवं चतुर्दशे उद्देशके प्रतिग्रहे यो गमो भणितः स एव इहापि वस्त्रेण ज्ञातव्यः । यावद् यो भिक्षुः वस्त्रनिश्रया वर्षावासं वसति वसन्तं वा स्वदते, नवरं कोरणं नास्ति ॥ सू० ३४-९० ॥ चूर्णी -- 'एवं' इत्यादि । ‘एवं' एवम् - अनेन प्रकारेण यथा-'चउद्दसमे उद्देसए 'चतुर्दशे उद्देशके 'जो गमो भणिओ' यो गमः-प्रतिग्रहविषयको एकोनषष्टि(५९)संख्यकसूत्रात्मको भणितः-कथितः 'सो चेव' स एव-तादृश एव गमः 'इहंपि' इहापि 'वत्थेण' वस्त्रेण सह શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy