Book Title: Agam 24 Chhed 01 Nishith Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
चूर्णिभाष्यावचूरिः उ०१७ सू० २५२-२५३ गायनादिकरण भेर्यादिशब्दश्रवणेच्छानिषेधः ३९५
छाया-अमुकाचार्यसदृशानि लक्षणानि खलु पश्य ममापि ।
ईदृशलक्षणयुक्तश्च, भवति अचिरेण आचार्यः ॥१॥ इत्यादि स्वस्य विषये व्याकरोति तथा 'वागरेंतं वा साइज्जइ व्याकुर्वन्तं वा स्वशरीरस्थ लक्षणानि प्रकाशयन्तं श्रमणान्तरं यः स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० २५१॥
सूत्रम्--जे भिक्खू गाएज्ज वा हसेज्ज वा वाएज्ज वा णच्चेज्ज वा अभिणएज्ज वा हयहेसियं, हथिगुलगुलाइयं उक्किट्ठसीहनायं वा करेइ करेंतं वा साइज्जइ ॥ सू० २५२ ॥
छाया-यो भिक्षुः गायेत् वा हसेद्वा वादयेद्वा नृत्येद्वा अभिनयेदा हयहेषितं हस्तिगुलगुलायितम् उत्कृष्टसिंहनाद वा करोति कुर्वन्तं वा स्वदते ॥ सू० २५२ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'गाएज्ज वा' गायेद्वा-गानं कुर्यात् , तत्र स्वरकरणं स्वरसञ्चारो वा गानं तत्कुर्यात् 'हसेज्ज वा' हसेद्वा-मुखं विस्फाल्य सविकारकहकहकरणरूपं हसनं कुर्यात् 'वाएज्ज वा' वादयेत्-शङ्कवीणामृदङ्गादिकं वादयेत् 'नच्चेज्ज वा' नृत्येद्वा-पादजचोरुकट्युदरबाहगुलिवदन नयनभ्रमुखादीनां विकारकरणं गात्रसञ्चालनापरपर्यायं नृत्यं कुर्यात् , 'अभिणएज्ज वा' अभिनयेद्वा-अभिनयं दृश्यश्रव्यादिनाटकाङ्गरूपं कुर्यात् 'हयहेसियं वा' हयहेषितं वा-अश्ववत् हेषाशब्दं कुर्यात् 'हत्थिगुलगुलाइयं वा' हस्तिगुलगुलायितं वा हस्तिशब्दवत् शब्दं करोति 'उक्किट्ठसीहनायं वा' उत्कृष्टसिंहनादं वा' सिंहो यथा विलक्षणे हुङ्कारशब्दं करोति तथैव सिंहशब्दानुकारिशब्दम् 'करेइ' करोति स्वयमेव, परद्वारा वा कारयति तथा 'करेंतं वा साइज्जई' कुर्वन्तं वा श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ।
अत्राह-भाष्यकारः
गाएज्ज अहवा णच्चे. हसेज्ज जइ मोहओ ।
पावइ आणाभंगाई, मिच्छत्तं च विराहणं ॥ छाया- गायेद्वा अथवा नृत्येत् हसेद्वा यदि मोहतः ।
प्राप्नोत्याज्ञाभङ्गादि मिथ्यात्वं च विराधनम् ।। अवचूरिः- यदि मोहतः-मोहवशात् कारणादकारणाद्वा श्रमणः श्रमणी वा गायेत्गानं कुर्यात्, अथवा हसेत्-कहकह-शब्द कुर्यात् उपलक्षणत्वात् वादयेत् अभिनयेत्-अश्वगजादिशब्दं वा कुर्यात् तदा स आज्ञाभङ्गादिकं मिथ्यात्वं विराधनं च प्राध्नोति ।। सू० २५२ ॥
શ્રી નિશીથ સૂત્ર
Loading... Page Navigation 1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550