Book Title: Agam 24 Chhed 01 Nishith Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
निशीथसूत्रे ढंकुणशब्दान् वा अन्यतरान् वा तथाप्रकारान् ततान् शब्दान् कर्णश्रोतःप्रतिज्ञया अभिसंधारयति अभिसंधारयन्तं वा स्वदते ।। सू० २५५ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्ख' यः कश्चिद्भिक्षः श्रमणः श्रमणी वा 'वीणासदाणि वा वीणाशब्दान् वा हति वीणादीनां सूत्रोक्तानां शब्दान् , अन्यतरान् वा तथाप्रकारान् तत्तज्जातीयवादित्रसमुत्थान् शब्दान् वा 'कण्णसोयवडियाए' कर्णश्रोतःप्रतिज्ञया 'अभिसंधारेइ' अभिसंधारयति 'अभिसंधारेतं वा साइज्जइ' अभिसंधारयन्तं वा स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० २५५ ॥
सूत्रम्-जे भिक्खू संखसदाणि वा वंससदाणि वा वेणुसदाणि वा खरमुहासदाणि वा परिलीसदाणि वा चेचासदाणि वा अन्नयराणि वा तहप्पगाराणि झुसिराणि सदाणि कण्णसोयपडियाए अभिसंधारेइ अभिसंधारेतं वा साइज्जइ ॥ सू० २५६॥
__ छाया - यो भिक्षुः शङ्खशब्दान् वा वंशशब्दान् वा वेणुशब्दान् वा खरमुखीशब्दान् घा परिलीशब्दान् वा चेचाशब्दान् वा अन्यतरान् वा तथाप्रकारान् शुषिरान् शब्दान् कर्णश्रोतःप्रतिज्ञया अभिसंधारयति अभिसंधारयन्तं वा स्वदते ॥ सू० २५६ ॥
ची-'जे भिक्ख' इत्यादि। जेभिक्खु यः कश्चिद्भिक्षुः श्रदणः श्रमणी वा 'संखसदाणि वा' शङ्खशब्दान् वा 'वंससदाणि वा' वंशशब्दान् वा वंशेन जायमानान् शब्दान् वा 'वेणुसद्दाणि चा वेणुशब्दान् वा, तत्र वेणुरिति सशुषिरो वंशस्यैव जातिविशेषः यो मुखादिवायुना परितः शब्दं करोति, येन निष्पादितवादित्रम् 'वांसुरी' इति लोकप्रसिद्धं तस्य शब्दान् वा 'खरमुहीसहाणि वा' खरमुखोशब्दान् वा, तत्र खरो-गर्दभः तस्य मुखमिव मुखं वस्याः सा खरमुखी-वादित्रविशेषः तस्याः शब्दान् परिलीसहाणि वा' परिलीशब्दान् वा वाद्यविशेषस्य शब्दान् 'चेचासहाणि वा' चेचाशब्दान् वा 'चेचा' इति वाद्यविशेषस्य शब्दान् वा 'अन्नयराणि वा तहप्पगाराणि' अन्यतरान् वा तथाग्रकारान्-शङ्खवंशवेणुप्रभृतिशब्दसदृशशब्दान् 'झुसिराणि सदाणि' शुषिरान्शुषिरजातीयवादित्रजन्यान् शब्दान् 'कण्णसोयवडियाए' कर्णश्रोतःप्रतिज्ञया-कर्णाभ्यां श्रवणेच्छया 'अभिसंधारेइ' अभिसंधारयति-मनसि निश्चयं करोति तथा 'अभिसंधारेतं वा साइज्जई' अभिसंधारयन्तं वा श्रमणान्तरं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तस्याऽऽज्ञाभङ्गादि का दीषा अपि भवन्ति ॥ सू० २५६ ॥
सूत्रम्-जे भिक्खू वप्पाणि वा फलिहाणि वा जाव इहलोइएसु वा रुवेसु परलोइएसु वा रूवेसु जाव अज्झोववज्जंतं वा साइज्जइ॥ सू२७०
શ્રી નિશીથ સૂત્ર