Book Title: Agam 24 Chhed 01 Nishith Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 479
________________ निशीथसूत्रे छाया - एवम् - तृतोयोद्देशकगमो भणितव्यः यावत् यो निर्धन्यः निर्ग्रन्थस्य ग्रामानुग्रामं द्रवतः अन्ययूथिकेत गार्हस्थेिकेन वा शीर्षदौवारिकां कारयति कारयन्तं वा स्वद (५५) सु० १६ - ७० ॥ ३८८ एवम् यो निर्ग्रन्थः निर्ग्रन्ध्याः० (५६) ॥ सू० ७१-१२६ ॥ एवम् या निर्ग्रन्थी निर्यन्थस्य० (५६) ॥ सू० १२७ -१८२ ॥ एवम् - या निर्ब्रन्थो निर्मन्थ्याः ० (५६) ॥सू०१८३-२३८॥ चूर्णी - ' एवं ' इत्यादि । एवम् अनेन क्रमेण 'तइयउद्देसगमो भाणियन्बो' तृतीयो - देशकगमो भणितव्यः कथयितव्यः कियत्पर्यन्तमित्याह - ' जाव' इत्यादि । 'जाव' यावत्तृतीयोदेशकगत सप्तदशसूत्रादारभ्य एकसप्ततितमसूत्रपर्यन्तं पञ्चपञ्चाशत्सूत्र कदम्बकमत्र वाच्यम्, तदन्तिमसूत्रमाह - 'जे निग्गंथे' इत्यादि । 'जे निग्गंथे' यः कश्चित् निर्ग्रन्थः 'निग्गंथस्स' निर्ग्रन्थस्य-स्वात्मभिन्नान्यश्रमणस्य 'गामाणुगामं दूइज्जमाणस्स' प्रमानुप्रामं प्रामाद् ग्रामान्तरं विहरतः 'अन्नउत्थिएण वा' अन्ययूथिकेन अन्यदार्शनिकेन 'गारत्थिएण वा' गार्हस्थिकेन गृहस्थेन वा 'सीसवारियं' शीर्षदौवारिकां शिरसि छत्राकाराच्छादनरूपां 'कारावे ' कारयति 'कारावेंतं वा साइज्जइ' कारयन्तं वा श्रमणान्तरं स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति ( ५५ ) ॥ सू० १६-७० ।। एवम् - 'जे निग्गंथे-निग्गंथीए ०' अत्रापि पादामार्जनादारभ्य शीर्षदौवारिकापर्यन्तानि षट्पञ्चाशत्सूत्राणि वाच्यानि ( ५६ ) ॥ सू० ७१–१२६ ॥ एवम् -'जा निग्गंथी निग्गंथस्स ० ' अत्रापि षट्पञ्चाशत्सूत्राणि वाच्यानि (५६) ॥ सू० १२७–१८२) एवम् 'जा निग्गंथी निग्गंथीए०' अत्रापि षट्पञ्चाशत् सूत्राणि बोध्यानि (५६) ।। सू०१८३-२३८॥ 1 एतानि सर्वाणि सूत्राणि तृतीयोदेशक सूत्रकदम्बकवद व्याख्येयानि, भेदस्तावदेतावानेव - यत् तत्र पादामार्जनादेः स्वयं करणं कथितम्, अत्र तु परेण कारणमिति । षट्पञ्चाशत्सूत्राणि यथाषट्सूत्राणि पादविषयकाणि ६, एवं षट् कायस्य १२, षड् व्रणस्य १८, षड् गण्डविषयस्य २४, पायुकूमि - दीर्घनस्त्रशिखेति द्वयम् २६, अष्ट रोमविषयाणि ३४, त्रीणि दन्तानाम् ३७, षड् ओष्ठस्य ४३, एकमुत्तरोष्ठस्य ४४, एकगक्षिपत्रविपयकम् ४५, षड् अक्ष्णोः ५१, रोम-पार्श्वरोमविषयकं द्विकम् ५३, अक्ष्यादिमलविषयकमेकम् ५४, कायस्वेदविषयकमेकम् ५५, एकं च शीर्षद्वारिका विषयकम् ५६, इति षट्पञ्चाशत् सूत्राणि ५६ । एवमेतानि षट्पञ्चाशत्सूत्राणि 'ज निग्गंथे निग्गंथीए पाए' इत्यादिनिर्ग्रन्थकारित निर्ग्रन्थीपादप्रमार्जनाद्यारभ्य शीर्षद्वारिकापर्यन्तानि वाच्यानि ५६ । एवमेत्र 'जा निग्गंथी निग्गंथस्स पाए' इत्यादिनिर्ग्रन्थाकारितनिर्ग्रन्थपादप्रमार्जनादीनि शीर्षद्वारिका શ્રી નિશીથ સૂત્ર

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550