________________
निशीथसूत्रे
छाया - एवम् - तृतोयोद्देशकगमो भणितव्यः यावत् यो निर्धन्यः निर्ग्रन्थस्य ग्रामानुग्रामं द्रवतः अन्ययूथिकेत गार्हस्थेिकेन वा शीर्षदौवारिकां कारयति कारयन्तं वा स्वद (५५) सु० १६ - ७० ॥
३८८
एवम् यो निर्ग्रन्थः निर्ग्रन्ध्याः० (५६) ॥ सू० ७१-१२६ ॥ एवम् या निर्ग्रन्थी निर्यन्थस्य० (५६) ॥ सू० १२७ -१८२ ॥ एवम् - या निर्ब्रन्थो निर्मन्थ्याः ० (५६) ॥सू०१८३-२३८॥
चूर्णी - ' एवं ' इत्यादि । एवम् अनेन क्रमेण 'तइयउद्देसगमो भाणियन्बो' तृतीयो - देशकगमो भणितव्यः कथयितव्यः कियत्पर्यन्तमित्याह - ' जाव' इत्यादि । 'जाव' यावत्तृतीयोदेशकगत सप्तदशसूत्रादारभ्य एकसप्ततितमसूत्रपर्यन्तं पञ्चपञ्चाशत्सूत्र कदम्बकमत्र वाच्यम्, तदन्तिमसूत्रमाह - 'जे निग्गंथे' इत्यादि । 'जे निग्गंथे' यः कश्चित् निर्ग्रन्थः 'निग्गंथस्स' निर्ग्रन्थस्य-स्वात्मभिन्नान्यश्रमणस्य 'गामाणुगामं दूइज्जमाणस्स' प्रमानुप्रामं प्रामाद् ग्रामान्तरं विहरतः 'अन्नउत्थिएण वा' अन्ययूथिकेन अन्यदार्शनिकेन 'गारत्थिएण वा' गार्हस्थिकेन गृहस्थेन वा 'सीसवारियं' शीर्षदौवारिकां शिरसि छत्राकाराच्छादनरूपां 'कारावे ' कारयति 'कारावेंतं वा साइज्जइ' कारयन्तं वा श्रमणान्तरं स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति ( ५५ ) ॥ सू० १६-७० ।।
एवम् - 'जे निग्गंथे-निग्गंथीए ०' अत्रापि पादामार्जनादारभ्य शीर्षदौवारिकापर्यन्तानि षट्पञ्चाशत्सूत्राणि वाच्यानि ( ५६ ) ॥ सू० ७१–१२६ ॥
एवम् -'जा निग्गंथी निग्गंथस्स ० ' अत्रापि षट्पञ्चाशत्सूत्राणि वाच्यानि (५६) ॥ सू० १२७–१८२) एवम् 'जा निग्गंथी निग्गंथीए०' अत्रापि षट्पञ्चाशत् सूत्राणि बोध्यानि (५६) ।। सू०१८३-२३८॥
1
एतानि सर्वाणि सूत्राणि तृतीयोदेशक सूत्रकदम्बकवद व्याख्येयानि, भेदस्तावदेतावानेव - यत् तत्र पादामार्जनादेः स्वयं करणं कथितम्, अत्र तु परेण कारणमिति । षट्पञ्चाशत्सूत्राणि यथाषट्सूत्राणि पादविषयकाणि ६, एवं षट् कायस्य १२, षड् व्रणस्य १८, षड् गण्डविषयस्य २४, पायुकूमि - दीर्घनस्त्रशिखेति द्वयम् २६, अष्ट रोमविषयाणि ३४, त्रीणि दन्तानाम् ३७, षड् ओष्ठस्य ४३, एकमुत्तरोष्ठस्य ४४, एकगक्षिपत्रविपयकम् ४५, षड् अक्ष्णोः ५१, रोम-पार्श्वरोमविषयकं द्विकम् ५३, अक्ष्यादिमलविषयकमेकम् ५४, कायस्वेदविषयकमेकम् ५५, एकं च शीर्षद्वारिका विषयकम् ५६, इति षट्पञ्चाशत् सूत्राणि ५६ । एवमेतानि षट्पञ्चाशत्सूत्राणि 'ज निग्गंथे निग्गंथीए पाए' इत्यादिनिर्ग्रन्थकारित निर्ग्रन्थीपादप्रमार्जनाद्यारभ्य शीर्षद्वारिकापर्यन्तानि वाच्यानि ५६ । एवमेत्र 'जा निग्गंथी निग्गंथस्स पाए' इत्यादिनिर्ग्रन्थाकारितनिर्ग्रन्थपादप्रमार्जनादीनि शीर्षद्वारिका
શ્રી નિશીથ સૂત્ર