________________
चूर्णिभाष्यावचूरिः उ० १७ सू० २३९-२४२
मालावताद्यशनादिनिषेधः ३८९
पर्यन्तानि षट्पञ्चाशत्सूत्राणि पठितव्यानि ५६ । एवमेव 'जा निग्गंथी निग्गंथीए पाए' इत्यादि, निर्ग्रन्थीकारितनिर्ग्रन्थीपादप्रमार्जनादीनि शीर्षद्वारिकापर्यन्तानि षट्पञ्चाशत्सूत्राणि वक्तव्यानि ५६ । एतानि सर्वाणि पञ्चदशसूत्रादारम्य - अष्टत्रिंशदधिकद्विशत (२३८) सूत्रपर्यन्तानि चतुर्विंशत्य - धिकद्विशत(२२४) संख्यकसूत्राणि तृतीयोदशेकगत षोडशसूत्रादारभ्य एकसप्ततितमसूत्रपर्यन्तोक्तगमानधिकृत्य षट्पञ्चाशत्सूत्राणि 'जे निग्गंथे निग्गंथस्स' इत्यादिषु चतुर्ष्वपि प्रत्येकं पठितव्यानि, तदर्थोऽपि तदनुसारेणैव ज्ञातव्यः ॥ सू० १५ - २३८ ॥
जे णिग्गंथे णिग्गंथस्स सरिसगस्स अंते ओवासे संते ओवासं न देइ न देंतं वा साइज्जइ ॥ सू० २३९ ॥
छाया -- यो गिन्थो निर्ग्रन्थाय सदृशकायाऽन्तरवकाशे सति अवकाशं न ददाति न ददतं वा स्वदते ॥ सू० २३९ ॥
चूर्णी - 'जे णिग्गंथे' इत्यादि । 'जे णिग्गंथे' यः कश्चिद् निर्ग्रन्थः श्रमणः 'णिगंथस्स सरिसगस्स' निर्ग्रन्थाय सदृशकाय - यो यस्य समानसामाचारीकः स तस्य सदृशः कथ्यते, एतादृशाय समागताय श्रमणाय 'अंते ओवासे संते' अन्तः - स्ववसतिमध्ये अवकाशे निवासस्थाने सति-विद्यमानेऽपि 'ओवासं' अवकाश - निवासस्थानम् 'न देइ' न ददाति-न समर्पयति तथा 'न देतं वा साइज्जइ' विद्यमानमपि अवकाश न ददतं श्रमणान्तरं स्वदतेअनुमोदते स प्रायश्चित्तभागी भवति, तस्याज्ञाभङ्गादिका दोषा अपि भवन्ति ॥ सू० २३९ ॥
सूत्रम् - - जाणिग्गथी णिग्गंथीए सरिसियाए अंते ओवासे संते ओवासं न देइ न देंतं वा साइज्जइ ॥ सू० २४० ॥
छाया
- या निर्ग्रन्थी निर्ग्रन्थ्यै सदृशकाये अन्तरवकाशे सति अवकाशं न ददाति न ददर्ती वा स्वदते ॥ सू० २४० ॥
चूर्णो - 'जा णिग्गंथी इत्यादि 'जा णिग्गंथी' या काचित् निर्ग्रन्थी - श्रमणी णिग्गंथीए सरिसियाए' निर्मन्ध्यै - श्रमण्यै सदृशकायै समानकल्पस्थित्यादिमत्यै 'अं ते ओवासे संते' अन्तर्मध्ये सति अवकाशे-निवासस्थाने स्ववसतौ 'ओवासं न देइ' अवकाश-निवासस्थानं न ददाति न प्रयच्छति, काचित् श्रमणी पर प्रामादिस्थानान्तरात् समागच्छेत् तस्यै यदि 'इयं श्रमणी मत्समानधर्मिणी' इति ज्ञात्वाऽपि स्ववसतौ निवासं न ददाति तथा 'न देंतं वा साइज्जइ' न ददतीं वा तां या स्वदने - अनुमोदते सा प्रायश्चित्तभागिनी भवति तथा तस्याः आज्ञाभङ्गादिका अपि दोषा भवन्ति ॥
શ્રી નિશીથ સૂત્ર