SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ ३९० निशीथसूत्रे अत्राह भाष्यकार:भाष्यम्-निग्गंथो तह निग्गंथी, सस्स सस्स परोप्परं । संतावासं न जं देई, आणाभंगाइ पावई ॥१॥ छाया निर्ग्रन्थस्तथा निर्ग्रन्थी स्वस्य स्वस्व परस्परम् । सन्तमावासं न यत् ददाति, आज्ञाभङ्गादि प्रानोति ॥१॥ अवचूरिः- निग्रन्थः साधुः तथा निर्ग्रन्थी साध्वी स्वस्य स्वस्य परस्परं साधुः समानसामाचारीकाय साधवे, साध्वी समानसामाचारीकायै साध्यै सन्तं विद्यमानं स्वस्थितोपाश्रये आवासं सदपि निवासस्थानं यत्- यदि न ददाति तदा सः साधुः साध्वी वा आज्ञाभङ्गादिदोषान् प्राप्नोतीति ॥ स्० २४० ॥ सूत्रम्-जे भिक्खू मालोहडं असणं वा पाणं वा खाइमं वा खाइमं वा दिज्जमाणं पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ॥ सू० २४१ ॥ छाया -यो भिक्षुर्मालावहृतम् अशनं वा पानं वा खाद्यं वा स्वाद्यं वा दीयमानं प्रतिगृह्णाति प्रतिगृह्णन्तं वा स्वदते ॥ सू० २४१॥ चूर्णिः- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'मालोहडं' मालाऽवहृतम्, तत्र मालावहृतम्-मालः स्थानविशेषः तस्माद् अवहृतम्-अपकृष्टं मालावहृतम्-तत् त्रिविधम्-ऊर्ध्वाधस्तिर्यग्भेदात्, तत्र ऊर्ध्वमालावहृतम्-उच्चप्रदेशात् निश्रेण्यादिनाऽवतारितम् १ अधोमालावहृतम् - भूमिगृहादित आनीतम् २, तिर्यमालावहृतम्-मञ्चादितोऽवतारितम् ३ । एतादृशम्, 'असणं वा' अशनं वा 'पाणं वा' पानं वा 'खाइमं वा' खाद्यं वा 'खाइमं वा' स्वाद्यं वा चतुर्विधमाहारजातम् 'दिज्जमाणं' दीयमानम्, यो भिक्षुः 'पडिग्गाहेड' प्रतिगृह्णाति-स्वीकरोति तथा 'पडिग्गाहेंतं वा साइज्जइ' प्रतिगृह्णन्तं वा श्रमणान्तरं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० २४१॥ सूत्रम्--जे भिक्खू कोट्ठाउत्तं असणं वा पाणं वा खाइमं वा साइमं वा उक्कुज्जिय णिक्कुज्जिय दिज्जमाणं पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ॥ सू० २४२ ॥ छाया—यो भिक्षुः कोष्ठायुक्तम् अशनं वा पानं वा खाद्यं वा स्वाद्यं वा उत्कुज्य निष्कुब्ज्य दीयमानं प्रतिगृह्णाति प्रतिगृह्णन्तं वा स्वदते ॥२४२॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कचिद्भिक्षुः श्रमणः श्रमणी वा 'कोहाउत्त' कोष्ठायुक्तम् , तत्र कोष्ठं नाम-मृत्तिकादिनिर्मितपुरुषैकप्रमाणं ततो हीनमधिकं वा 'कोठा' इति लोकप्रसिद्धं तादृशकोष्ठादौ स्थितम् 'असणं वा' अशनं वा 'पाणं वा' पानं वा શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy