________________
चूर्णिभाष्यावचूरिः उ०१७ सू०२४३-२४८ मृत्तिकालिप्तसचित्तपृथिव्यादिस्थिताशनादिनि० ३९१ 'खाइमं वा' खायं वा 'साइमं वा' स्वायं वा चतुर्विधमाहारजातम् 'उकुज्जिय णिक्कुज्जिय' उत्कुब्ज्य निष्कुब्ज्य--उच्चैः कुब्जीभूय नीचैः कुब्जीभूय च-कायमुन्नम्य अवनम्य 'दिज्जमाणं' दीयमानं तादृशमाहारजातं यः श्रमणः श्रमणी वा 'पडिग्गाहेइ' प्रतिगृह्णाति स्वीकरोति तथा 'पडिग्गाहेंतं वा साइज्जइ' प्रतिगृह्णन्तं वा स्वदते-अनुमोदते प्रायश्चित्तभागी भचति ।। सू०२४२॥
सत्रम्-जे भिक्खू मट्टिओलितं असणं वा पाणं वा खाइमं वा साइमं वा उभिदिय निभिदिय दिज्जमाणं पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ॥सू० २४३॥
छाया--यो भिक्षुः मृत्तिकोपलिप्रमशनं वा पानं वा स्वाद्य वा स्वाद्य वा उद्भिद्य निर्भिद्य दीयमानं प्रतिगृह्णाति प्रतिगृह्णन्तं वा स्वदते ॥ सू० २४३॥
चर्णिः-जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिभिक्षुः श्रमणः श्रमणी वा 'मटिओलितं' मृत्तिकोपलिप्तम्-मृत्तिकया उपलिप्तं-मुद्रितम् 'असणं वा' अशनं वा 'पाणं वा' पानं वा 'खाइमं वा' खाद्यं वा 'साइमं वा' स्वायं वा 'उभिदिय निभिदिय' उद्भिद्य निर्भिद्य-यद्वस्तु घृतगुडादिकं पात्रविशेष स्थापयित्वा मृत्तिकया लिप्तं तत् उद्भिद्य-उत्कृष्टं बलपूर्वकं भित्त्वा त्रोटयित्वा निभिंद्य-नितरां बारं बारं भित्त्वा 'दिज्जमाणं' दीयमानम् 'पडिग्गाहेई' प्रतिगृह्णाति स्वीकरोति 'पडिग्गाहतं' तादृशमशनादिकं प्रतिगृह्णन्तं श्रमणान्तरम् ‘साइज्जई' स्वदते-अनुमोदते स प्रायश्चित्तभाग भवतीति ।। सू० २४३ ॥
सूत्रम्-जे भिक्खू असणं वा पाणं वा खाइमं वा साइमं वा पुढवीपइट्ठियं पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ॥ सू० २४४ ॥ एवं आउपइट्ठियं ।। सू० २४५॥ तेउपइट्ठियं ।। सु० २४५॥ वणप्फइकायपइट्ठियं ॥सू० २४७॥
छाया--यो भिक्षुरशनं वा पान वा खाद्यं वा स्वाद्य वा पृथिवीप्रतिष्ठितं प्रतिगृह्णाति प्रतिगृह्णन्तं वा स्वदते ॥ सू० २४४ ॥ एवम् अप्प्रतिष्ठितम् ॥ सू० २४५ ॥ तेजःप्रतिष्ठितम् ॥ सू० २४६ ॥ वनस्पतिकायप्रतिष्ठितम् ॥ सू० २४७ ॥
चूर्णिः- 'जे भिक्खू' इत्यादि । 'जे भिवखू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'असणं' वा' अशनं वा 'पाणं वा' पानं वा 'खाइमं वा' खाद्य वा 'साइमं वा' स्वाद्यं वा 'पुढवीषइद्वियं' पृथिवीप्रतिष्ठितं, पृथिव्याम्-यत् सचित्तपृथिवीकाये-सचित्तमृत्तिकालवणगैरिकारूपे प्रतिष्ठितम्-अनन्तरपरम्पररूपेण साक्षात् परस्परया वा स्थापितं भवेत् तद् अशनादिकं दीयमानं यः श्रमणः श्रमणी वा 'पडिग्गाहेइ' प्रतिगृह्णाति-स्वीकरोति तथा 'पडिग्गाहेंतं वा साइज्जई'
શ્રી નિશીથ સૂત્ર