Book Title: Agam 24 Chhed 01 Nishith Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
निशीथसूत्रे
छाया - -यो भिक्षुः कौतूहलप्रतिज्ञया हाराणि वा अर्द्धहाराणि वा एकावलीं वा मुक्तावलीं वा कनकावलीं वा रत्नावलीं वा कटकानि वा त्रुटितानि वा केयूराणि वा कुण्डलानि वा हानि वा मुकुटानि वा प्रलम्बसूत्राणि वा सुवर्णसूत्राणि वा करोति कुर्वन्तं वा स्वदते ॥ स्र० ९ ॥ एवं धरति• ॥ सू० १० ॥ परिभुङ्क्ते ॥ सू० ११ ॥
चर्णी - 'जे भिक्खू' इत्यादि । यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा मोहनीयकर्मोदयात् 'कोउहल्लवडियाए' कौतूहलप्रतिज्ञया - स्वात्मविनोदेच्छ्या अन्येनापि कारणेन वा 'हाराणि वा हारान् वा अष्टादशसरिकान् 'अद्धहाराणि वा अर्द्धहारान् वा नवसरिकान् अर्द्धहारान्, 'एगावलिं वा' एकावली वा-1 - एकसरिकाम् 'मुक्तावलिं वा' मुक्तावलीं वा, तत्र मुक्तानां मौक्तिकानामावली-पंक्तिर्यत्र सा, तां मुक्तावलीम् 'कणगावलिं वा' कनकावलीं वा, तत्र कनकानां सुवर्णमणकानामावली यत्रेति कनकावली ताम्, 'रयणावलिं वा' रत्नावलीं वा, तत्र रत्नानां माणिक्यप्रभृतीनामावली-पंक्तिर्यत्र तां रत्नावलीम्, 'कडगाणि वा कटकानि वा कङ्कणानि - सुवर्णवलयान् वा 'तुडियाणि वा' त्रुटितानि वा बाह्राभरणानि 'केऊराणि वा' केयूराणि वा 'भुजबन्ध' इति प्रसिद्धानि भुजाभरणानि 'कुण्डलाणि वा' कुण्डलानि वा - कर्णाभरणानि 'पद्याणि वा' पट्टानि वा कटपट्टानि कटाभरणानि 'मउडाणि वा' मुटुटानि वा - शिरोभूषणानि 'पलंबसुत्ताणि वा ' प्रलम्बसूत्राणि वा कण्ठादौ प्रलम्बमानाभरणानि 'सुवण्णसुत्ताणि वा' सुवर्णसूत्राणि वा कण्ठे धार्यमाणानि सुवर्णसूत्रग्रथितान्याभरणानि, एतानि हारादीनि यः श्रमणः श्रमणी वा स्वात्मविनोदाभिप्रायेण अन्येन वा केनापि कारणेन 'करेई' करोति - स्वयं सम्पादयति तथा 'करेंतं वा साइज्जइ' कुर्वन्तं वा संपादयन्तं वा स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ९ ॥ एवम् हारादीनां विषये 'घरेइ परिभुंजइ इति सूत्रद्वयमपि स्वयमूहनीयम्, करण - धरण - परिभोगविषयाणां सूत्राणां व्याख्या सप्तमोदेशके द्रष्टव्या । सू० १०-११ ॥
३८६
सूत्रम् - जे भिक्खू कोउहल्लवडियाए आईणाणि वा आईण - पाउरणाणि वा कंबलाणि वा कंबलपाउरणाणि वा कोयराणि वा कोयर पाउरणाणि वा गोरमियाणि वा कालमियाणि वा नीलमियाणि वा सामाणि वा महासामाणि वा उद्याणि पा उट्टलेस्साणि वा वग्वाणि वा विवग्धाणि वा पतंगाणि वा सहिणाणि वा सहिणकल्लाणि वा खोमाणि वा दुगुल्लाणि वा तिडपट्टाणि वा पतलाणि वा पणलाणि वा आवरताणि वा चीणाणि वा असुयाणि वा कणगकंताणि वा कणगखचियाणि वा कणगविचित्ताणि वा आभरणविचित्ताणि वा करेइ करेंतें वा साइज्जइ ॥ सू० १२ ॥
શ્રી નિશીથ સૂત્ર