Book Title: Agam 24 Chhed 01 Nishith Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 480
________________ चूर्णिभाष्यावचूरिः उ० १७ सू० २३९-२४२ मालावताद्यशनादिनिषेधः ३८९ पर्यन्तानि षट्पञ्चाशत्सूत्राणि पठितव्यानि ५६ । एवमेव 'जा निग्गंथी निग्गंथीए पाए' इत्यादि, निर्ग्रन्थीकारितनिर्ग्रन्थीपादप्रमार्जनादीनि शीर्षद्वारिकापर्यन्तानि षट्पञ्चाशत्सूत्राणि वक्तव्यानि ५६ । एतानि सर्वाणि पञ्चदशसूत्रादारम्य - अष्टत्रिंशदधिकद्विशत (२३८) सूत्रपर्यन्तानि चतुर्विंशत्य - धिकद्विशत(२२४) संख्यकसूत्राणि तृतीयोदशेकगत षोडशसूत्रादारभ्य एकसप्ततितमसूत्रपर्यन्तोक्तगमानधिकृत्य षट्पञ्चाशत्सूत्राणि 'जे निग्गंथे निग्गंथस्स' इत्यादिषु चतुर्ष्वपि प्रत्येकं पठितव्यानि, तदर्थोऽपि तदनुसारेणैव ज्ञातव्यः ॥ सू० १५ - २३८ ॥ जे णिग्गंथे णिग्गंथस्स सरिसगस्स अंते ओवासे संते ओवासं न देइ न देंतं वा साइज्जइ ॥ सू० २३९ ॥ छाया -- यो गिन्थो निर्ग्रन्थाय सदृशकायाऽन्तरवकाशे सति अवकाशं न ददाति न ददतं वा स्वदते ॥ सू० २३९ ॥ चूर्णी - 'जे णिग्गंथे' इत्यादि । 'जे णिग्गंथे' यः कश्चिद् निर्ग्रन्थः श्रमणः 'णिगंथस्स सरिसगस्स' निर्ग्रन्थाय सदृशकाय - यो यस्य समानसामाचारीकः स तस्य सदृशः कथ्यते, एतादृशाय समागताय श्रमणाय 'अंते ओवासे संते' अन्तः - स्ववसतिमध्ये अवकाशे निवासस्थाने सति-विद्यमानेऽपि 'ओवासं' अवकाश - निवासस्थानम् 'न देइ' न ददाति-न समर्पयति तथा 'न देतं वा साइज्जइ' विद्यमानमपि अवकाश न ददतं श्रमणान्तरं स्वदतेअनुमोदते स प्रायश्चित्तभागी भवति, तस्याज्ञाभङ्गादिका दोषा अपि भवन्ति ॥ सू० २३९ ॥ सूत्रम् - - जाणिग्गथी णिग्गंथीए सरिसियाए अंते ओवासे संते ओवासं न देइ न देंतं वा साइज्जइ ॥ सू० २४० ॥ छाया - या निर्ग्रन्थी निर्ग्रन्थ्यै सदृशकाये अन्तरवकाशे सति अवकाशं न ददाति न ददर्ती वा स्वदते ॥ सू० २४० ॥ चूर्णो - 'जा णिग्गंथी इत्यादि 'जा णिग्गंथी' या काचित् निर्ग्रन्थी - श्रमणी णिग्गंथीए सरिसियाए' निर्मन्ध्यै - श्रमण्यै सदृशकायै समानकल्पस्थित्यादिमत्यै 'अं ते ओवासे संते' अन्तर्मध्ये सति अवकाशे-निवासस्थाने स्ववसतौ 'ओवासं न देइ' अवकाश-निवासस्थानं न ददाति न प्रयच्छति, काचित् श्रमणी पर प्रामादिस्थानान्तरात् समागच्छेत् तस्यै यदि 'इयं श्रमणी मत्समानधर्मिणी' इति ज्ञात्वाऽपि स्ववसतौ निवासं न ददाति तथा 'न देंतं वा साइज्जइ' न ददतीं वा तां या स्वदने - अनुमोदते सा प्रायश्चित्तभागिनी भवति तथा तस्याः आज्ञाभङ्गादिका अपि दोषा भवन्ति ॥ શ્રી નિશીથ સૂત્ર

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550