Book Title: Agam 24 Chhed 01 Nishith Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
चूर्णिभाष्यावचूरिः उ० १७ सू०५-१४ कुतूहलवाञ्छ्याऽयोलोहादिहारादिकरणादिनि० ३८५ कायाः करण धरणं परिभोगं च विवर्जयेत् दूरतः परिवर्जयेत् साध्वाचारविरुद्धत्वेन भगवदननुमतत्वादिति ॥ १-२ ॥ सू० ५ ॥
सूत्रम्-जे भिक्खू कोउहल्लवडियाए अयलोहाणि वा तंबलोहाणि वा तउयलोहाणि वा सीसलोहाणि वा रुप्पलोहाणि वा सुवण्णलोहाणि वा करेइ करेंतं वा साइज्जइ ॥ सू० ६॥ एवं धरेइ ॥ सू० ७॥ परिभुंजइ ॥ सू० ८॥
छाया- यो भिक्षुः कौतूहलप्रतिज्ञया अयोलोहान् वा त्रपुलोहान् वा सीसकलोहान् वा रूप्यलोहान् वा सुवर्णलोहान् वा करोति कुर्वन्तं वा स्वदते ॥ सू०६॥ एवं धरति ॥ सू० ७ ॥ परिभुङ्क्ते ॥ सू०८॥
चर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'कोउहल्लवडियाए' कौतूहलप्रतिज्ञया-आत्मनोविनोदाभिप्रायेण उपलक्षणाद् अन्येनापि केनचित्कारणेन 'अयलोहाणि वा' अयोलोहान् वा, तत्रायसो लोहस्य लोहान् सूत्रशालाकादिरूपेणाऽऽकृतिविशेषान् 'तंबलोहाणि वा' ताबलोहान् वा-ताम्रस्याऽऽकृतिविशेषान् वा 'तउयलोहाणि वा' त्रपुलोहान् वा, तत्र त्रपोः-धातुविशेषस्य 'जस्ता' इति लोकप्रसिद्धस्य लोहान्-आकृतिविशेषात् 'सीसलोहाणि वा' सीसकलोहान् वा, तत्र सीसकं 'सीसा' इति लोकप्रसिद्धम् तस्याऽऽकृतिविशेषान् रुप्पलोहाणि वा रूप्यलोहान् वा, तत्र रूप्यं रजतम् तस्याऽऽकृतिविशेषान् 'सुवण्णओहाणि वा' सुवर्णलोहान् वा सुवर्णस्य कटककुण्डलाद्याकृतिविशेषान् 'करेइ' करोति-अयःप्रभृतीनामाकृतिविशेषान् मनोरञ्जनार्थ यो भिक्षुः स्वयं करोति-सम्पादयति, तथा 'करेंतं वा साइज्जई' कुर्वन्तं वा श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ६ ॥ एवं 'धरेइ परिभुजई' इति सूत्रद्वयमपि स्वयमूहनीयम् करण-धरण–परिभोगविषयकसूत्रत्रयस्य विशेषव्याख्या सप्तमोदेशके द्रष्टव्या ॥ सू० ७-८ ॥
सूत्रम्-जे भिक्खू कोउहल्लवडियाए हाराणि वा अद्धहाराणि वा एगावलिं वा मुत्तावलिं वा कणगावलिं वा रयणावलिं वा कडगाणि वा तुडियाणि वा केऊराणि वा कुंडलाणि वा पट्टाणि वा मउडाणि वा पलं. बसुत्ताणि वा सुवण्णसुत्ताणि वा करेइ करेंतं वा साइज्जइ ॥ सू० ९॥ एवं घरेइ० ॥ सू० १०॥ परिभुंजइ ॥ सू० ११॥
શ્રી નિશીથ સૂત્ર