Book Title: Agam 24 Chhed 01 Nishith Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 472
________________ ॥ सप्तदशोद्देशकः॥ व्याख्यातः षोडशोदेशकः, सम्प्रति सप्तदशोद्देशको व्याख्यायते, तत्रास्य सप्तदशोद्देशका. दिसूत्रस्य षोडशोदेशकान्तिमसूत्रेण सह कः सम्बन्ध ? इति चेदत्राह भाष्यकारः उद्देसंते समक्खायं, संजमत्तबिराहणं । तं चेव सत्तदसगे, कत्थई य विराहणं ॥ छाया-उद्देशान्ते समाख्यातं, संयमात्मविराधनम् । तदेव सप्तदशके कथ्यते च विराधनम् ॥ अवचूरिः-उद्देशान्ते षोडशोद्देशकस्यान्ते स्कन्धादौ उच्चारप्रस्रवणं परिष्ठापनं कुर्वतः स्कन्धादितः पततश्च संयमविराधनमात्मविराधनं च भवति, इति कथितम् , तदेव संयमविराधनमात्मविराधनं च कौतूहलप्रतिज्ञया त्रसप्राणादेर्बन्धनेऽपि भवतीति सप्तदशोदेशके कथ्यते, तदेवमुभयत्रापि विराधनमेव प्रतिपादितं भवतीति अयमेव सम्बन्धः पूर्वापरसूत्रयोर्भवति, तदनेन संबन्धेन आयातस्यास्य सप्तदशोदेशकस्येदं प्रथमं सूत्रम् – सूत्रम्--जे भिक्खू कोउहल्लवडियाए अण्णयरं तसपाणजायं तणपासएण वा मुंजपासएणवा, कट्ठपासएण वा, चम्मपासएण वा, वेत्तपासएण वा रज्जुपासएण वा सुत्तपासएण वा बंधइ बंधतं वा साइज्जइ । __छाया-यो भिक्षुः कौतूहलप्रतिज्ञया अन्यतमं त्रसप्राणजातं तृणपाशकेन वा मुजपाशकेन वा, काष्ठपाशकेन वा, चर्मपाशकेन वा, वेत्रपाशकेन वा, रज्जुपाशकेन वा सूत्रपाशकेन वा, बध्नाति बध्नन्तं वा स्वदते ॥ सू० १॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'कोउहल्लवडियाए' कौतूहलप्रतिज्ञया-कौतूहलवृत्तितया वा, तत्र कौतूहलं हास्यविनोदादिलक्षणम् , तस्य कौतूहलस्य प्रतिज्ञया अभिलाषया वृत्तितया वा 'अण्णयरं तसपाणजायं' अन्यतमं किञ्चिदेकं त्रसप्राणजातम् , तत्र त्रसन्ति एकस्मात्स्थानात् स्थानान्तरं प्रति गच्छन्तीति त्रसाः-गवादय चतुष्पदाः, पक्षिणश्च, एतदन्येऽपि स्थलचरखेचरादयो गृहीता भवन्ति, एतेषु अन्यतमं त्रसप्रणजातम् 'तणपासएण वा' तृणपाशकेन वा, तत्र तृणो-दर्भादिकस्तस्य पाशकेन दर्भादितृणविनिर्मितदवरिकया पाशशब्दस्य दवरिकावाचकत्वात् 'मुंजपासएण वा' मुझपाशकेन वा, तत्र मुञ्जो नाम तृणविशेषः, तन्निर्मितः पाशो दवरिका तेन मुजपाशकेन 'कपासएण वा' काष्ठपाशकेन वा 'चम्मपासएण वा' चर्मपाशकेन-पश्वादिचर्मनिर्मितेन पाशकेन 'वेतपासएण वा' वेत्रपाशकेन શ્રી નિશીથ સૂત્ર

Loading...

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550