________________
॥ सप्तदशोद्देशकः॥ व्याख्यातः षोडशोदेशकः, सम्प्रति सप्तदशोद्देशको व्याख्यायते, तत्रास्य सप्तदशोद्देशका. दिसूत्रस्य षोडशोदेशकान्तिमसूत्रेण सह कः सम्बन्ध ? इति चेदत्राह भाष्यकारः
उद्देसंते समक्खायं, संजमत्तबिराहणं । तं चेव सत्तदसगे, कत्थई य विराहणं ॥ छाया-उद्देशान्ते समाख्यातं, संयमात्मविराधनम् ।
तदेव सप्तदशके कथ्यते च विराधनम् ॥ अवचूरिः-उद्देशान्ते षोडशोद्देशकस्यान्ते स्कन्धादौ उच्चारप्रस्रवणं परिष्ठापनं कुर्वतः स्कन्धादितः पततश्च संयमविराधनमात्मविराधनं च भवति, इति कथितम् , तदेव संयमविराधनमात्मविराधनं च कौतूहलप्रतिज्ञया त्रसप्राणादेर्बन्धनेऽपि भवतीति सप्तदशोदेशके कथ्यते, तदेवमुभयत्रापि विराधनमेव प्रतिपादितं भवतीति अयमेव सम्बन्धः पूर्वापरसूत्रयोर्भवति, तदनेन संबन्धेन आयातस्यास्य सप्तदशोदेशकस्येदं प्रथमं सूत्रम् –
सूत्रम्--जे भिक्खू कोउहल्लवडियाए अण्णयरं तसपाणजायं तणपासएण वा मुंजपासएणवा, कट्ठपासएण वा, चम्मपासएण वा, वेत्तपासएण वा रज्जुपासएण वा सुत्तपासएण वा बंधइ बंधतं वा साइज्जइ ।
__छाया-यो भिक्षुः कौतूहलप्रतिज्ञया अन्यतमं त्रसप्राणजातं तृणपाशकेन वा मुजपाशकेन वा, काष्ठपाशकेन वा, चर्मपाशकेन वा, वेत्रपाशकेन वा, रज्जुपाशकेन वा सूत्रपाशकेन वा, बध्नाति बध्नन्तं वा स्वदते ॥ सू० १॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'कोउहल्लवडियाए' कौतूहलप्रतिज्ञया-कौतूहलवृत्तितया वा, तत्र कौतूहलं हास्यविनोदादिलक्षणम् , तस्य कौतूहलस्य प्रतिज्ञया अभिलाषया वृत्तितया वा 'अण्णयरं तसपाणजायं' अन्यतमं किञ्चिदेकं त्रसप्राणजातम् , तत्र त्रसन्ति एकस्मात्स्थानात् स्थानान्तरं प्रति गच्छन्तीति त्रसाः-गवादय
चतुष्पदाः, पक्षिणश्च, एतदन्येऽपि स्थलचरखेचरादयो गृहीता भवन्ति, एतेषु अन्यतमं त्रसप्रणजातम् 'तणपासएण वा' तृणपाशकेन वा, तत्र तृणो-दर्भादिकस्तस्य पाशकेन दर्भादितृणविनिर्मितदवरिकया पाशशब्दस्य दवरिकावाचकत्वात् 'मुंजपासएण वा' मुझपाशकेन वा, तत्र मुञ्जो नाम तृणविशेषः, तन्निर्मितः पाशो दवरिका तेन मुजपाशकेन 'कपासएण वा' काष्ठपाशकेन वा 'चम्मपासएण वा' चर्मपाशकेन-पश्वादिचर्मनिर्मितेन पाशकेन 'वेतपासएण वा' वेत्रपाशकेन
શ્રી નિશીથ સૂત્ર