________________
निशोधसूत्रे
चूर्णी - 'तं सेवमाणे' इत्यादि । 'तं सेवमाणे' तत् - सागारिकशय्यात आरभ्य उद्देशकपरिसमाप्तिपर्यन्तं प्रायश्चित्तस्थानं सेवमानः तस्य प्रतिसेवनां कुर्वन् - [ - श्रमणः श्रमणी वा 'आवज्जइ' आपयते - प्राप्नोति 'चाउम्मासियं' चातुर्मासिकम् 'परिहारद्वाणं' परिहारस्थानम् - प्रायश्चित्तम् 'उग्घाइयं' उद्घातिकम् - सागारिकशय्यादिप्रवेशादारभ्य उद्देशकपरिसमाप्ति - गतोच्चारप्रस्रवणपरिष्ठापनसूत्रपर्यन्तं यानि यानि प्रायश्चित्तस्थानानि दर्शितानि तेषु मध्यात् एकमनेकं सर्वे वा पापस्थानं प्रतिसेवमानस्य लघु चातुर्मासिकं प्रायश्चित्तं भवति, तथा तस्याऽऽज्ञाभङ्गादिका दोषा अपि भवन्ति ॥ सू० ५३ ॥
३८०
इति श्री - विश्वविख्यात - जगद्वल्लभ - प्रसिद्ध वाचक - पञ्चदशभाषाकलित ललित कलापालापकप्रविशुद्ध गद्यपद्यनैकप्रन्थनिर्मापक - वादिमानमर्दक- श्रीशाहू छत्रपति कोल्हापुरराजप्रदत्त“जैनशास्त्राचार्य” - पदभूषित - कोल्हापुरराजगुरु - बालब्रह्मचारि - जैनाचार्य - जैनधर्मं दिवाकर - पूज्यश्री - घासीलालवति - विरचितायां " निशीथसूत्रस्य" चूर्णि भाष्यावचूरिरूपायां व्याख्यायाम् षोडशोदेशकः समाप्तः ॥१६॥
શ્રી નિશીથ સૂત્ર