SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्रे वा, तत्र वेत्रं नाम लताविशेषः 'वेंत' इति लोकप्रसिद्धः तेन वेत्रेण निर्मितः पाशको दवरिका तेन वेत्रपाशकेन 'रज्जुपासएण वा' रज्जुपाशकेन वा, तत्र शणादिना निर्मिता या रच्जुः तस्याः पाशको दवरिका तेन रज्जुपाशकेन 'मुत्तपासएण वा' सूत्रपाशकेन वा, तत्र सूत्रं-कार्पासिकादिकं तेन निर्मितः पाशको दवरिका तेन सूत्रपाशकेन, एतेषां तृणादिपाशकानामन्यतमेन पाशकेन कौतूहलप्रतिज्ञया अन्यतमं त्रसप्राणजातं यः श्रमणः श्रमणी वा 'बंधई' बध्नाति त्रसप्राणजातस्य बन्धनं करोति कारयति वा तथा 'बंधतं वा साइज्जइ' बध्नन्तं वा श्रमणान्तरं स्वदतेअनुमोदते स प्रायश्चित्तभागी भवति ॥ सू०१॥ सूत्रम्--जे भिक्खू कोउहल्लवडियाए अण्णयरं तसपाणजायं तणपासएण वा, मुंजपासएण वा, कट्ठपासएण वा, चम्मपासएण वा, वेत्तपासएण वा, रज्जुपासएण वा सुत्तपासएण वा, बंधेल्लगं मुयइ मुयंत वा साइज्जइ ॥ सू० २॥ छाया-यो भिक्षुः कौतूहलप्रतिज्ञया अन्यतमं त्रसप्राणजातं तृणपाशकेन वा मुअपाशकेन वा काष्ठपाशकेन वा चर्मपाशकेन वा वेत्रपाशकेन वा रज्जुपाशकेन वा सूत्रपाशकेन वा ब मुञ्चति, मुञ्चन्तं वा स्वदते ॥ सू०२॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कद्भिक्षुः श्रमणः श्रमणी वा 'कोउहल्लवडियाए' कौतूहलप्रतिज्ञया-हास्यविनोदाद्यभिलाषेण 'अण्णयरं तसपाणजायं' अन्यतमं त्रसप्राणजातम् तृणादिपाशकेन 'बंधेल्लग' बद्धं 'मुंचई' मुञ्चति-बन्धनविमुक्तं करोति, तथा 'मुयंतं वा साइज्जई' मुश्चन्तं वा स्वदते-बन्धनबद्धं प्राणिजातं बन्धनात् विमोचयन्तं श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागो भवति, तस्याज्ञाभङ्गादिका दोषा अपि भवन्ति । अत्र कुतूहलादिना त्रसप्राणिनां बन्धने मोचने च तेषामबोधत्वेन जलाग्निगर्तपातादिना मरणसंभवात्तन्निषेधः कृतः किन्तु अग्निना ज्वलतां जलेन प्लावयमानानां हिंस्रैर्हन्यमानानां सर्पादिभिर्दश्यमानानां तु दयाबुद्धया बन्धनं मोचनं च कर्तन्यमेव, न तन्निषेधः । सूत्रे तु कौतूहलप्रतिज्ञया बन्धनविमोचनस्यैव निषेधो न तु दयाबुद्धयेति तत्त्वम् ॥ अत्राह भाष्यकारः तणाइपासजाएणं, तसाणं बंधमोयणं । कोऊहल्लेण नो कुज्जा, दयटुंण णिसिज्झई ॥ छाया-तृणादिपाशजातेन, प्रसाणां बन्धमोचनम् । कौतूहलेन नो कुर्यात् , दयार्थ न निषिध्यते । શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy