________________
चूणिभाष्यावद्भिः उ० १७ सू० १-४ तृणादिमालिकाकरणधरणपरिभोगनिषेधः ३८३
अवचूरिः-तूणादिपाशजातेन- तृणमुञ्जादिना निर्मितेन पाशजातेन केनापि प्रकारेण पाशेन दवरिकया त्रसाणां बन्धमोचनं बन्धनं मोचनं च कौतूहलेन कुतूहलबुद्ध्या विनोदहास्याद्यर्थ नो कुर्यात् , किन्तु दयाथै दयानिमित्तं बन्धनं मोचनं च न निषिध्यते जलाग्न्यादितो रक्षणार्थ बन्ध. नस्य मोचनस्य च निषेधो भगवता न कृतः, अतएव 'कोऊहलवडियाए' इति सूत्रे कथितम् ।सू०२।
सूत्रम्-जे भिक्खू कोउहल्लवडियाए तणमालियं वा मुंजमालियं वा भिंडमालियं वा मयणमालियं वा पिच्छमालियं वा दंतमालियं वा सिंगमालियं वा संखमालियं वा हड्डमालियं वा कट्ठमालियं बा पत्तमालियं वा पुप्फमालियं वा फलमालियं वा बीयमालियं वा हरियमालियं वा करेइ करेंतं वा साइज्जइ ॥ सू० ३॥
छाया-यो भिक्षुः कौतूहलप्रतिज्ञया तृणमालिकां वा मुअमालिकां वा भिण्डमालिकां वा मदनमालिकां बा पिच्छमालिकां वा दन्तमालिकां वा शृङ्गमालिकां वा शङ्खमालिकां वा अस्थिमालिकां वा काष्ठमालिकां वा पत्रमालिकां वा पुष्पमालिकां वा फलमा. लिकां वा बीजमालिकां वा हरितमालिकां वा करोति कुर्वन्तं वा स्वदते ॥ सू० ३॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणीवा 'कोउहल्लवडियाए' कौतूहलप्रतिज्ञया-आत्मनो विनोदाभिप्रायेण 'तणमालियं वा' तृणमालिकां वा, तत्र तृणानां-दर्भादितृणविशेषाणां मालिका मालां करोति-तृणादिना मालां निर्माति 'मुंजमालियं वा' मुञ्जमालिकां वा-तृणविशेषरूपमुञ्जस्य मालिकां निर्माति भिंडमालियं वा' भिण्डमालिका वा, भिण्डः-वनस्पतिविशेषः तस्य मालाम् 'मयणमालियं वा' मदनमालिकां वा-मदनस्य 'मोम' इति लोकप्रसिद्धस्य मालाम् 'पिच्छमालियं वा' पिच्छमालिकां वा-मयूरादिपिच्छानां मालाम् 'दंतमालियं वा' दन्तमालिकां वा-गजादिदन्तानां मालाम् 'सिंगमालियं वा' शृङ्गमालिकां वा-हरिणमहिषादिशृङ्गाणां मालाम् 'संखमालियं वा' शङ्खमालिकां वा-शङ्खानां मालाम् 'हड्डमालियं वा' अस्थिमालिकां वा-महिष्याद्यस्श्नां मालाम् , 'कट्ठमालियं वा' काष्ठमालिकां वा-तुलस्यादिकाष्ठानां मालाम् 'पत्तमालियं वा' पत्रमालिकां वा-तुलस्यादिपत्रैर्निर्मितां मालाम् 'पुष्फमालियं वा' पुष्पमालिकां वा-चम्पादिपुष्पाणां मालाम् ‘फलमालियं वा' फलमालिकां वा-अनेकप्रकारकफलानां मालाम् 'बीयमालियं वा' बीजमालिकां वा-रुद्राक्षादिबीजानां मालाम् 'हरियमालियं वा' हरितमालिकां वा-हरितकायवनस्पतीनां सम्बन्धिनी मालाम् , 'करेइ' करोति-संपादयति, तथा 'करेंतं वा साइज्जइ' कुर्वन्तं-तृणादिविविधवस्तूनां मालां कुर्वन्तं संपादयन्तं श्रमणान्तरं स्वदते–अनुमोदते स प्रायश्चित्तभागी भवति, तस्याज्ञाभङ्गरदिका दोषा अपि भवन्ति ॥ सू० ३ ॥
શ્રી નિશીથ સૂત્ર