________________
निशीथसूत्रे
सूत्रम् — जे भिक्खू को उहल्लवडियाए तणमालियं वा मुंजमालियं वा भिडमालियं वा मयणमालियं वा पिच्छमालियं वा दंतमालियं वा सिंगमालियं वा संखमालियं वा हड्डमालियं वा कट्टमालियं वा पत्तमालियं वा पुप्फमालियं वा फलमालियं वा बीयमालियं वा हरियमालियं वा धरे
३८४
धतं वा साइज्जइ ॥ सू० ४ ॥
छाया-- -- यो भिक्षुः कौतूहलप्रतिज्ञया तृणमालिकां वा मुञ्जमालिकां वा भिण्डमालिकां वा मदनमालिकां वा पिच्छमालिकां वा दन्तमालिकां वा गृङ्गमालिकां वा शङ्खमालिकां वा अस्थिमालिकां वा पत्रमालिकां वा पुष्पमालिकां वा फलमालिकां वा बीजमालिकां वा हरितमालिकां वा धरति धरन्तं वा स्वदते ॥ सू० ४ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्विक्षुः श्रमणः श्रमणी वा 'कोउहल्लपडियाए' कौतूहलप्रतिज्ञया तृणादिसम्पादितां मालां धरति - हस्तादौ स्थापयति धरन्तं वा स्वदते स प्रायश्चित्तभाग् भवति ॥ सू० ४ ॥
एवं 'परिभुजइ' इत्यपि सूत्रम् - 'परिभुंजइ' परिभुङ्क्ते - तृणादिमालायाः सुगन्धस्पर्शादिना उपभोगं करोति कण्ठे धारयति वा । तृणादिमालाविषयककरण - धरण - परिभोगप्रदर्शकानां त्रयाणां सूत्राणां व्याख्या सप्तमोद्देशके द्रष्टव्या । विशेषस्तु एतावानेव यत्तत्र 'मैथुनप्रतिज्ञया ' इति पदेन कथितम् अत्र तु 'कौतुहलप्रतिज्ञया' इति पदेन वाच्यम्, एवमग्रेऽपि ॥
"
अत्राह भाष्यकारः
को हल्लेण अन्ने, केणावि कारणेण जो । तणाइमालियं कुज्जा, घरेज्जा परिभुंज ॥१॥ आणाभंगा दोसाई, पावई सो अणेगहा । तम्हा भिक्खू विवज्जेज्जा, मालियाकरणाइयं ॥ २ ॥ छाया - कौतूहलेन अन्येन केनापि कारणेन यः ।
तृणादिमालिकां कुर्यात् धरेत् परिभुञ्जीत ॥ १ ॥ आज्ञा भङ्गादिदोषान् प्राप्नोति सः अनेकधा । तस्माद् भिक्षुर्विवर्जयेत्, मालिकाकरणादिकम् ॥ २ ॥
अवचूरि:: - यः कोऽपि निर्ग्रन्थः निर्ग्रन्थी वा कुतूहलेन हास्यविनोदादिना तथा अन्येन वा केनापि कारणेन रागद्वेषमोहादिना तृणादिमालिकां कुर्यात् धरेत् परिभुञ्जीत वा स आज्ञाभङ्गादिदोषान् अनेकप्रकारकान् प्राप्नोति तस्मात् कारणात् भिक्षुः मालिकाकरणादिकं, मालि
શ્રી નિશીથ સૂત્ર