Book Title: Agam 24 Chhed 01 Nishith Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
चूर्णिभाष्यावचूरिः उ० १६ सू० ४२-५३ सचित्तपृथिव्यादिषच्चारादिपरिष्ठापननिषेधः३७९
छाया --यो भिक्षुरनन्तरहितायां पृथिव्या जीवप्रतिष्ठिते साण्डे सप्राणे सवीजे सहरिते सओसे सोदके सोत्तिङ्गपनकदकमृत्तिकामर्कटसंतानके दुर्बद्ध दुनिक्षिप्ते अनि कम्पे चलाचले उच्चारप्रस्रवणं परिष्ठापयति परिष्ठापयन्तं वा स्वदते ॥ सू० ४२ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जेभिक्खू' यः कश्चित् भिक्षुः श्रमणः श्रमणी वा 'अणंतरहियाए पुढवीए' अनन्तरहितायां पृथिव्याम् , तत्र--अन्तरहिता-अन्तरं-व्यवधानं तेन हिता स्थिता अन्तरहिता-व्यवधानयुक्ता न अन्तरहिता अनन्तरहिता अचित्तताव्यवधानवर्जिता, चतुरङ्गुलपर्यन्तसचित्ततासम्बन्धयुक्ता सचित्तेत्यर्थः तस्यामनन्तरहितायां सचित्तायां पृथिव्याम् 'जीवपइहिए' इत्यादिविशेषणानि स्थानसामान्यस्य बोध्यानि ततश्च जीवप्रतिष्ठिते-दीन्द्रियादिजीवविशिष्टे-दारुकादौ 'सअंडे' साण्डे, तत्र अण्डेन सहितं साण्डं स्थानं तस्मिन्-अण्डविशिष्टस्थाने 'सहरिए' सहरिते-हरितविशिष्टे स्थाने 'सओसे' सओसे, तत्र ओस इति निशाजलं तेन सहिते स्थाने 'सउदए' सोदके-सचित्तोदकसहिते स्थाने 'सउत्तिंगपणगदगमट्टियमक्कडासंताणगंसि' सोत्तिङ्ग-पनक-दकमृतिका--मर्कटसन्तानके, तत्र उत्तिङ्गो जीवविशेषो गर्दभाकृतिभूमौवर्तुलछिद्रकारकः, तद्विशिष्टे भूभागे, पनकः-'लीलनफुलन-काई' इति लोकप्रसिद्धस्तत्सहिते भागे, दकमृत्तिका--उदकमिश्रितमृत्तिका, तद्विशिष्टे भूभागे-सामृत्तिकायुक्त स्थाने, तथा-मर्कटसन्तानके लूता(मकडी)जालप्रतिष्ठितस्थाने, पुनः कथंभूते 'दब्वद्ध'दुर्बद्धे-सम्यगबन्धनरहिते 'दुण्णिक्खित्ते' दुनिक्षिप्ते-असम्यग्रूपेण स्थापिते दारुकादौ 'अनिक्कंपे' अनिष्कंपे-कम्पनसहिते 'चलाचले' चलाचले-अस्थिरे स्थाने यः श्रमणः श्रमणी वा 'उच्चारपासवर्ण' उच्चारप्रस्रवणम् 'परिट्टवेई' परिष्ठापयति-व्युत्सृजति तथा 'परिट्ठवेंतं वा साइज्जई' परिष्ठापयन्तं वा श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति । ॥ सू०४२ ॥ 'जे भिक्खू ससणिद्धाए पुढवीए' इति सूत्रादारभ्य - 'जे भिक्खू खंधसि वा' इति सूत्रपर्यन्तानि दश सूत्राणि, तच्छाया, तव्याख्या तद्भाष्यं चेति सर्व त्रयोदशोदेशके विलोकनीयम् । विशेषस्तु एतावानेव यत्-तत्र 'ठाणं वा संज्जं वा' इत्युक्तम् , अत्र तु 'उच्चारपासवणं परिहवेइ इति वाच्यम् ॥ सू० ४२-१०-५२॥
सूत्रम्--तं सेवमाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं उग्घाइयं ॥ सू० ५३॥
॥ निसीहज्झयणे सोलसमो उद्देसो समाप्तः ॥१६॥ छाया-तत्सेवमान आपद्यते चातुर्मासिकं परिहारस्थानमुद्घातिकम् ॥ सू०५३ ।।
॥ निशीथाध्ययने षोडशोद्देशकः समाप्तः॥१६॥
શ્રી નિશીથ સૂત્ર
Loading... Page Navigation 1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550