Book Title: Agam 24 Chhed 01 Nishith Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
३६४
निशीथसूत्रे एवं नाट्येऽपि, तत्र नृत्यनाटकयोरयं भेदः-यत् गीतरहितं तत् नृत्यं तत्र केवलं गात्रसञ्चालनमेव, नाटकं तु गीतसमन्वितम् , यत्र गीतमपि गायति गात्रसञ्चालनमपि करोति इति, तत्र नाटकेऽपि स्त्रीपुरुषयोविभागेन द्रव्यभावभेदो ज्ञातव्य इति । एवं गीतेऽपि, तत्र गीतं- स्वरसाम्येन गानं, तच्चतुर्विधं भवति, तन्त्रीसमम् १, तालसमम् २, ग्रहसमम् ३, लयसमं च ४, तत्र यत् गीतं पुरुषैर्गातुं योग्यं तत् श्रमणानां द्रव्यसागारिकं श्रमणीनां तदेव भावसागारिकम् , यत् पुनः स्त्रीभिर्गातुं योग्यं तत् श्रमणीनां द्रव्यसागारिकं श्रमणानां भावसागारिकम् । एवं शयनीयेऽपि, तत्र शयनीयं पर्यङ्काद्यनेकप्रकारकम् , तत्र यत् शयनीयं पुरुषैरधिष्ठातुं योग्यं तत् श्रमणानां द्रव्यसागारिकं तदेव शयनीयं श्रमणीनां भावसागाकिरम्, यत्पुनः स्त्रीभिरधिष्ठातुं योग्यं तत् शयनीयं श्रमणीनां द्रव्यसागारिकं श्रमणानां तु भावसागारिकम् । इत्यादिभेदभिन्नां सागारिकशय्यां यः कश्चिद्भिक्षुरनुप्रविशति स दोषभागी भवतीति ॥ सू० १ ॥
सूत्रम्-जे भिक्खू सोदगं सेज्ज अणुप्पविसइ अणुप्पविसंतं वा साइज्जइ ॥ सू० २॥
छाया-यो भिक्षुः सोदकां शय्यामनुप्रविशति अनुप्रविशन्तं वा स्वदते ॥ सू०२ ॥ चूर्णि:-'जे भिक्खू इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'सोदकं सेज्जं' सोदकां शय्याम् सचित्तजलसहिता जलस्थानरूपां सागारिकवसतिं गृहस्थानां जलस्थानं प्रपादिकम् यत्रोदकं विद्यते तादृशस्थानं यस्य वा समीपे उदकं विद्यते तादृशं स्थानं सोदकशय्येति पदेन कथ्यते इति तादृशीं सोदकां वसतिं यः श्रमणः श्रमणी वा 'अणुप्पविसई' अनुप्रविशति तत्र प्रवेशं करोति, कारयति वा 'अणुप्पविसंतं वा साइज्जई' अनुप्रविशन्तं वा सोदकशय्यायां वासं कुर्वन्तं श्रमणान्तरं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ।। सू० २॥
सूत्रम्--जे भिक्खू सागणियं सेज्जं अणुप्पविसइ अणुप्पविसंतं वा साइज्जइ ॥ सू० ३॥
छाया-यो भिक्षुः साग्निकां शय्यामनुप्रविशति अनुप्रविशन्तं वा स्वदते ।।सू० ३॥
चूर्णी-'जे भक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'सागणियं सेज्ज' साग्निकां शय्याम् , तत्र अग्रिना सहिता-संयुक्ता अग्निसमीपस्था वा शय्या वसतिः-स्थानं सा साग्निकशय्या तां साग्निकशय्यां पाकस्थानं महानसादिकम् , कुम्भकारस्य भाण्ड. पचनस्थानं वा यत्राग्निर्भवेत् तत्र, अथवा अग्निसमीपवर्तिस्थानं वा 'अणुप्पविसई' अनुप्रविशति अग्निशालादिषु प्रवेश करोति कारयति वा तथा 'अणुप्पविसंतं वा साइज्जइ' अनुप्रविशन्तं वा श्रमणान्तरं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥
શ્રી નિશીથ સૂત્ર
Loading... Page Navigation 1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550