Book Title: Agam 24 Chhed 01 Nishith Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 466
________________ चूर्णिभाष्यावचूरिः उ० १६ सू० ३७-३९ अन्यतीथिकादिसहभोजननिषेधः ३७५ सूत्रम्--जे भिक्खू असणं वा पाणं वा खाइमं वा साइमं वा वेहासे णिक्खिवइ णिक्खिवंतं वा साइज्जइ ।। सू० ३७॥ छाया-यो भिक्षुरशनं वा पानं वा खाद्य वा स्वाद्य वा विहायसि निक्षिपतिं निक्षिपन्तं वा स्वदते ॥ सू० ३७ ॥ ___ चूर्णी-... 'जे भिक्ख' इत्यादि । 'जे भिक्ख' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'असणं वा' अशनं वा 'पाणं वा' पानं वा 'खाइमं वा' खाद्य वा 'साइमं वा' स्वाद्यं वा 'वेहासे' विहायसि-आकाशे नागदन्ते सिक्कादौ पृथिव्यसंबद्धप्रदेशादौ 'णिक्खिवई' निक्षिपति-व्यवस्थापयति नागदन्तादौ आलम्ब्यान्यवेलायां भोजनार्थमाहारजातं व्यवस्थापयतीत्यर्थः, तथा 'णिक्खिवंतं वा साइज्जई' निक्षिपन्तं वा श्रमणान्तरं स्वदते--अनुमोदते स प्रायश्चित्तभागी भवति, तस्याज्ञाभङ्गानवस्थामिथ्यात्वसंयमात्मविराधनादयो दोषा भवन्ति, तत्र संयमविराधनेत्थम्-यदि पृथिव्यादौ साधुरशनादीनि निक्षेप्स्यति तदा तत्र घतगुडादीनां गन्धमाघ्राय पिपीलिकादिलघुजन्तवः समागमिष्यन्ति, तेषां विराधनारूपा संयमविराधना भवति, तल्लवुजन्तुभक्षणार्थ तत्र गृहगोधिका मूषको वा समागमिष्यति । तद्भक्षणार्थ मार्जारो धाविष्यति, तं धावन्तं दृष्ट्वा कुक्कुरः समागमिष्यति, इत्येवं प्रकारेणापरापरजन्तूनां समागमनात् प्राणातिपातः स्यात्, एवं नागदन्तादौ स्थापने पात्रादिक पृथिव्यां पतिष्यति पतनाच्च भाजनभेदः षट्कायविराधनं च स्यात्, एवं प्रकारेणापि संयमविराधना प्रसज्येत । आत्मविराधनेत्थम् भूम्यादौ निक्षिप्तमशनादिकं गृहगोधिकया सर्पेण वा आघातं भक्षितं वा स्यात् तस्याघ्राणनेनाऽशनादौ तन्मुखलालासंस्पृष्टं विषमपि संचरिष्यति, वृश्चिकादयो वा तत्र पतिष्यन्ति ततश्च तादृशविषसंस्पृष्टाऽशनादिभक्षणे कृते साधूनां मरणमपि स्यात् । यदि कदाचित् तादृशमशनादिकं पृथिव्यां परिष्ठापयिष्यति तदा तत्राहारलीभात् समागतकुक्कुरैः साधुर्दष्टोऽपि भवेत् तेन तत्रापि आत्मविराधना स्यात्, एवंप्रकारेणाऽऽत्मविराधना प्रसज्येत तस्मात् कारणात् श्रमणः श्रमणी वा पृथिवीसंस्तारकनागदन्तादौ अशनादिकमाहारजातं न स्थापयेत् न वा परद्वारा तस्य स्थापन कारयेत्, न वा पृथिव्यादिस्थाने संस्थापयन्तं श्रमणान्तरमनुमोदयेदिति ॥ सू० ३७ ।। सूत्रम्--जे भिक्खू अण्णउत्थिएहिं वा गारथिएहिं वा सद्धिं भुंजइ भुजंतं वा साइज्जइ ॥सू० ३८॥ छाया ---भिक्षुरन्ययूथिकैर्वा गृहस्थैर्वा सार्द्धम् भुङ्क्ते भुञ्जानं वा स्वदते ॥ सू० ३४॥ चूर्णी .....'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणो वा 'अण्णउत्थिएहिं वा' अन्ययूथिकैर्वा, तत्रान्ययूथिका दर्शनान्तरीयाः पार्श्वस्थादयस्तापसादयश्च, तैरन्ययूथिकैः શ્રી નિશીથ સૂત્ર

Loading...

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550