Book Title: Agam 24 Chhed 01 Nishith Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१६६
निशीथसूत्रे भल्लातकेन पोषकौषधिविशेषेण सौन्दर्यादिकमुत्पाद्य पुनस्तदपनयनार्थम् 'सीओदगवियडेण वा' शीतोदकविकटेन वा, तत्र विकटेन व्यपगतजीवेनाचित्तेनेत्यर्थः तथा च अचित्तशीतजलेन तथा 'उसिणोदगवियडेण वा' उष्णोदकविकटेन वा-अचित्तोष्णनलेनेत्यर्थः, 'उच्छोलेज्ज वा' उच्छोलयेद्वा एकवारम् ‘पधोएज्ज वा' प्रधावेदा अनेकवारम् 'उच्छोलेंतं वा पधोएतं वा साइज्जइ' उच्छोलयन्तं वा प्रधावन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥सू० १५॥
सूत्रम्-जे भिक्खू माउग्गामस्स मेहणवडियाए पोसतं वा पिद्रुतं वा सोयंत वा उच्छोलेत्ता पधोवेत्ता अन्नयरेणं आलेवणजाएणं आलिं' पेज्ज वा विलिंपेज्ज वा आलिपंतं वा विलिपंतं वा साइज्जइ ॥ सू० १६॥
छाया-यो भिक्षुः मातृग्रामस्य मैथुनप्रतिज्ञया पोषान्तं वा पृष्ठान्तं वा स्रोतोऽन्तं वा उच्छोल्य प्रधाव्य अन्यतरेण आलेपनजातेन आलेपयेद् वा विलेपयेद् वा आलेपयन्तं वा विलेपयन्तं वा स्वदते ॥सू० १६॥
चूर्णी - 'जे भिक्खू' इत्यादि । यो भिक्षुः 'माउग्गामस्स' मातृप्रामस्य, 'मेहुणवडियाए' मैथुनप्रतिज्ञया मैथुनेच्छया 'पोसतं वा पिटुंतं वा सोयंत वा' पोषान्तं पृष्ठान्तं स्रोतोऽन्तं वा पूर्वोक्तस्वरूपं 'उच्छोलेत्ता' उच्छोल्य ‘पयोवेत्ता' प्रधाव्य प्रक्षाल्य तदनन्तरं 'अन्नयरेणं आले वणजाएणं' अन्यतरेण केनाप्येकेन आलेपनजातेन आलेपनविशेषेण 'आलिंपेज्ज वा' आलेपयेत् एकवारम् , 'विलिंपेज्ज वा' विलेपयेद् वा वारं वारम् । एवं 'आलिंपंतं वा विलिपंत वा' आलेपयन्तं 'वा' विलेपयन्तं वा 'साइज्जइ' स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥सू०१६॥
सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए पोसंतं वा पिठंतं वा सोयंत वा उच्छोलेत्ता पधोएत्ता आलिंपेत्ता विलिंपेत्ता तेल्लेण वा घएण वा वसाए वा णवणीएण वा अभंगेज्ज वा मक्खेज्ज वा अभंगेंतं वा मक्वंतं वा साइज्जइ ॥ सू० १७॥
छाया-यो भिक्षुर्मातृप्रामस्य मैथुनप्रतिज्ञया पोषान्तं वा पृष्ठान्तं वा स्रोतोऽन्तं वा उच्छोल्य प्रधाव्य आलिप्य विलिप्य तैलेन वा घृतेन वा वसया वा नवनीतेन वा अभ्यञ्जयेत् वा प्रक्षयेत् वा अभ्यञ्जयन्तं वा सूक्षयन्तं वा स्वदते ॥सू. १७॥
चूर्णी—'जे भिक्खू माउग्गामस्स' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृप्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया 'पोसंतं वा' पोषान्तं वा 'पिटुतं वा' पृष्ठान्तं वा 'सोयंत वा' स्रोतोऽन्तं वा 'उच्छोलेत्ता-पधोएत्ता' उच्छोल्य प्रधाव्य शीतोष्ण
શ્રી નિશીથ સૂત્ર