Book Title: Agam 24 Chhed 01 Nishith Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
चूर्णिभाष्यावचूरिः उ० ११ सू० ७८-८०
पर्युषिताशनाद्याहार निषेधः २७३
सूत्रम् - जे भिक्खू असणं वा पाणं वा खाइमं वा साइमं वा परिवासेइ परिवासेंतं वा साइज्जइ ॥ सू०८१ ॥
छाया-यो भिक्षुः अशनं वा पानं वा खाद्यं वा स्वाद्यं वा परिवासयति परिवासयन्तं वा स्वदते ॥ सू० ८१ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'असणं वा४' अशनं वा ४ अशनादिचतुर्विधाहारम् 'परिवार' परिवासयति संस्थापयति सुन्दरमिदमशनादि आगामिदिने भोक्ष्यामीति रात्रौ स्थापयित्वा पर्युषितं करोति 'परिवासेंतं वा साइज्जइ' परिवासयन्तं वा स्वदते ॥ सू०८१ ॥
सूत्रम् - जे भिक्खू परिवासियस्स असणस्स वा पाणस्स वा खाइमस्स वा साइमस्स वा तयप्पमाणं वा भूइप्पमाणं वा विदुप्पमाणं वा आहारं आहारेइ आहारतें वा साइज्जइ ॥ सू० ८२ ॥
छाया - यो भिक्षुः परिवासितस्य अशनस्य वा पानस्य वा खाद्यस्य वा स्वाद्यस्य वा त्वचाप्रमाणं वा भूतिप्रमाणं वा बिन्दुप्रमाणं वा आहारमाहरति आहरन्तं वा स्वदते ॥ सू०८२ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'परिवासियस्स' परिवासितस्य पर्युषितस्य दिवसे मुक्तावशेषरय रात्रौ स्थापितस्य ' असणरस वा ' अशनस्य वा 'पाणस्स वा' पानस्य वा 'खाइमस्स वा' खाद्यस्य वा 'साइमस्स वा' स्वाद्यस्य वा ' तयप्पमाणं वा' त्वचाप्रमाणं वा त्वचा तनुतरा भवतीति त्वचाप्रमाणं अल्पप्रमाणमित्यर्थः 'भूइप्पमाणं वा' भूतिप्रमाणं वा भूतिः -- रक्षा - भस्म तत्प्रमाणं भस्मरजःकणप्रमाणं स्वल्पमात्र मपीत्यर्थः 'विदुप्पमाणं वा' बिन्दुप्रमाणं वा जलादेर्बिन्दुप्रमाणं वा 'आहारं आहारेइ' आहारमाहरति रात्रौ स्थापिताशनादेः स्वल्पमपि भागमाहरति भुङ्क्ते तथा 'आहारेंतं वा साइज्जइ' आहरन्तम्- अल्पमात्रस्याप्यशनादेर्भागस्योपभोगं कुर्वन्तं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ८२ ॥
-
-जे भिक्खू मंसाइयं वा मच्छाइयं वा मंसखलं वा मच्छखले सूत्रम्वा आहेणं वा पहेणं वा संमेलं वा हिंगोलं वा अन्नयरं वा तहप्पगारं विरूरूवं वा हीरमाणं पेहाए ताए आसाए ताए पिवासाए तं स्यणि अण्णत्थ उवाइणावेइ उवाइणावतं वा साइज्जइ ॥ सू०८३ ॥
શ્રી નિશીથ સૂત્ર