________________
आवश्यक
हारिभद्री यवृत्तिः विभागः१
॥१२॥
ISAAAASLASISSE
आसा हत्थी गावो गहिआई रजसंगहनिमित्तं । चित्तूण एवमाई चउव्विहं संगहं कुणइ ॥ २०१॥ गमनिका-अश्वा हस्तिनो गाव एतानि चतुष्पदानि तदा गृहीतानि भगवता राज्ये संग्रहः राज्यसंग्रहस्तन्निमित्तं गृहीत्वा एवमादि चतुष्पदजातमसौ भगवान् 'चतुर्विधं वक्ष्यमाणलक्षणं संग्रहं करोति, वर्तमाननिर्देशप्रयोजन पूर्ववत् , पाठान्तरं वा 'चउबिहं संगहं कासी' इति अयं गाथार्थः॥ २०१॥ स चायम्
उग्गा १ भोगा २रायण्ण ३ खत्तिआ४ संगहो भवे चउहा।
__आरक्खि १ गुरु २ वयंसा ३ सेसा जे खत्तिआ ४ ते उ ॥ २०२॥ गमनिका-उग्रा भोगा राजन्याः क्षत्रिया एषां समुदायरूपः संग्रहो भवेच्चतुर्धा, एतेषामेव यथासंख्यं स्वरूपमाह| आरक्खीत्यादि, आरक्षका उग्रदण्डकारित्वात् उग्राः, गुर्विति गुरुस्थानीया भोगाः, वयस्या इति राजन्याः समानवयस इतिकृत्वा वयस्याः, शेषा उक्तव्यतिरिक्ता ये क्षत्रियाः 'ते तु' तुशब्दः पुनःशब्दार्थः ते पुनः क्षत्रिया इति गाथार्थः ॥ २०२॥ इदानीं लोकस्थितिवैचित्र्यनिबन्धनप्रतिपादनमाह
आहारे १ सिप्प २ कम्मे ३ अ, मामणा ४ अ विभूसणा ५। लेहे ६ गणिए ७ अ रूवे ८ अ, लक्खणे ९माण १० पोअए ११॥ २०३॥
॥१२८॥
* भोजाः. +पादनायाह.
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org