Book Title: Aavashyaksutram Part 01
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 481
________________ भश्चते पुनरानीताश्चेति समासः, तेषां, किंविशिष्टानाम् -अखण्डाः-सम्पूर्णावयवाः अस्फुटिताः-राजीरहिताः, अखण्डाश्च तेऽस्फुटिताश्च इति समासः,तेषां, फलगसरिताणं ति फलकवीनितानाम् एवंभूतानामाढकं क्रियते बलिः, सुरा अपि च तत्रैव बलौ प्रक्षिपन्ति गन्धादीनिति गाथार्थः॥५८५॥द्वारंमाल्यानयनद्वारं,इदानीं तमित्थं निष्पन्नं बलिं राजादयस्त्रिदशसहिताः गृहीत्वा तूनिनादेन दिग्मण्डलमापूरयन्तः खल्वागच्छन्ति,पूर्वद्वारेण च प्रवेशयन्ति,अत्रान्तरे भगवानप्युपसंहरतीति, आहबलिपविसणसमकालं पुव्वद्दारेण ठाति परिकहणा । तिगुणं पुरओ पाडण तस्सद्धं अवडियं देवा ॥५८६ ॥ । व्याख्या-पूर्वद्वारेणेति व्यवहित उपन्यासः, बलेः प्रवेशनं पूर्वद्वारेण, बलिप्रवेशनसमकालं तिष्ठति' उपरमते धर्मकथेति, 'तिगुणं पुरओ पाडण' प्रविश्य राजादिर्बलिव्यग्रदेहो भगवन्तं त्रिः प्रदक्षिणीकृत्य तं बलिं तत्पादान्तिके पुरतः पातयति, तस्य चार्द्धमपतितं देवाः गृह्णन्ति, इति गाथार्थः ॥ ५८६ ॥ |अद्धद्धं अहिवइणो अवसेसं हवइ पागयजणस्स । सव्वामयप्पसमणी कुप्पइ णण्णो य छम्मासे ॥५८७॥ __ व्याख्या-शेषार्द्धस्य अर्द्ध-अर्द्धार्द्ध तदधिपतेर्भवति राज्ञ इत्यर्थः, अवशेष यद्बलेरास्ते तद्भवति कस्य ?, प्रकृतिषु भवः प्राकृतो-जनस्तस्य, स चेत्थंसामर्थ्यो भवति-ततः सिकथेनापि शिरसि प्रक्षिप्तेन रोगः खलूपशमं याति, अपूर्वश्च षण्मासान् यावन्न भवतीति, आह च-सर्वामयप्रशमनः, कुष्यति नान्यश्च षण्मासं यावत् । प्राकृतशैल्या स्त्रीलिङ्गनिर्देश इति गाथार्थः ॥५८७॥ द्वारम् ॥ अपरे त्वनन्तरोक्तद्वारद्वयमप्येकद्वारीकृत्य व्याचक्षते, तथापि अविरोध इति । इत्थं बलौ प्रक्षिप्ते भगवान् प्रथमात् प्राकारान्तरात् उत्तरद्वारेण निर्गत्य उत्तरपूर्वायां दिशि देवच्छन्दके यथासुखं समाधिना व्यवतिष्ठत dain Education Intematonal For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514