Book Title: Aavashyaksutram Part 01
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 486
________________ आवश्यक हारिभद्रीयवृत्तिः विभागा१ ॥२४॥ % % अर्धचतुर्थानि २ शतानि अर्द्धचतुर्थशतानि २ मानं ययोः तौ अर्धचतुर्थशतौ भवतः द्वयोः प्रत्येकं गणौ, इह गणः समुदाय एव उच्यते, न पुनरागमिक इति,तथा द्वयोस्तु गणधरयुगलयोः त्रिशतः त्रिशतो भवति गच्छः, एतदुक्तं भवति-उपरितनानां चतुर्णा गणधराणां प्रत्येकं त्रिशतमानः परिवार इति गाथार्थः ॥५९७॥ उक्तमानुषङ्गिक, प्रकृतं उच्यते-ते हि देवाः तं यज्ञ|पाटं परिहृत्य समवसरणभुवि निपतितवन्तः, तांश्च तथा दृष्ट्वा लोकोऽपि तत्रैव ययौ, भगवन्तं तु त्रिदशलोकेन पूज्यमानं दृष्ट्वा अतीव हर्ष चक्रे, प्रवादश्च सञ्जातः-सर्वज्ञोऽत्र समवसृतः, तं देवाः पूजयन्ति इति, अत्रान्तरे खल्वाकर्णितसर्वज्ञप्रवादोऽमाध्मातः खल्विन्द्रभूतिर्भगवन्तं प्रति प्रस्थित इत्याह• सोऊण कीरमाणी महिमं देवेहि जिणवरिंदस्स । अह एइ अहम्माणी अमरिसिओ इंदभूइत्ति ॥५९८ ॥ | व्याख्या-श्रुत्वा च क्रियमाणां, दृष्ट्वा वा पाठान्तरं, महिमां देवैर्जिनवरेन्द्रस्य, अथास्मिन प्रस्तावे 'एई' त्ति आगच्छति भगवत्समीपम् 'अहम्माणि' त्ति अहमेव विद्वान् इति मानोऽस्य इति अंहंमानी, 'अमर्षितः' अमर्षयुक्तः, अमर्षो-मत्सरविशेषः, मयि सति कोऽन्यः सर्वज्ञः ? इति, अपनयामि अद्य सर्वज्ञवादम्, इत्यादिसङ्कल्पकलुषितान्तरात्मा, कोऽसौ इत्याह-इन्द्रभूतिः, इति गाथार्थः ॥५९८॥ स च भगवत्समीपं प्राप्य भगवन्तं च चतुस्त्रिंशदतिशयसमन्वितं त्रिदशासुरनरेश्वरपरिवृतं दृष्ट्वा साशङ्कः तदग्रतस्तस्थौ, अत्रान्तरे आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । णामेण य गोत्तेण य सवण्णू सव्वदरिसीणं ॥५९९ ॥ व्याख्या-'आभाषितश्च' संलप्तश्च, केन ?-जिनेन, किंविशिष्टेन ?-जातिः-प्रसूतिः जरा-वयोहानिलक्षणा मरणं-दश XXX- ॥२४॥ dain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514