Book Title: Aavashyaksutram Part 01
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
BUSINESHSANSAR
मृतकडेवरमिव हंसा इति, जिनजन्ममहिमादिषु पुनर्भक्तिविशेषाद् भवान्तररागतश्च क्वचिदागच्छन्त्येव, तथा चैते साम्प्रतं भवतोऽपि प्रत्यक्षा एव, शेषकालमपि सामान्यतश्चन्द्रसूर्यादिविमानालयप्रत्यक्षत्वात्तद्वासिसिद्धिः, इत्यलं प्रसङ्गेन । छिन्नंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं । सो समणो पब्वइओ अद्धवहिं सह खंडियसएहिं ॥ ६२५ ॥ व्याख्या-पूर्ववत् । समाप्तः सप्तमो गणधरः। ते पव्वइए सो अकंपिओ आगच्छई जिणसगासं । वच्चामि ण वंदामी वंदित्ता पजुवासामि ॥ ६२६ ॥ व्याख्या-पूर्ववन्नवरमकम्पिकः आगच्छतीति नानात्वम् । आभहो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सवण्णू सव्वदरिसीणं ॥ ६२७ ॥ व्याख्या-सपातनिका पूर्ववदेव । किं मन्ने नेरइया अत्थि न अस्थित्ति संसओ तुज्झं। वेयपयाण य अत्थं ण याणसी तेसिमो अत्थो ॥२८॥
व्याख्या-नरान् कायन्तीति नरकास्तेषु भवा नारकाः, किं नारकाः सन्ति न सन्तीति मन्यसे, व्याख्यान्तरं पूर्ववत् , अयं च संशयस्तव विरुद्धवेदपदश्रुतिसमुद्भवो वर्त्तते, शेषं पूर्ववत्, वेदपदानि चामूनि-नारको वै एष जायते, यः शूद्रान्नमश्नाति' इत्यादि, 'एष' ब्राह्मणो नारको भवति यः शूद्रान्नमत्ति, 'नह वै प्रेत्य नरके नारकाः सन्ती' त्यादि, गतार्थ, युक्तय एवोच्यन्ते-तत्राकम्पिकाभिप्रायमाह-सौम्य ! त्वमित्थं मन्यसे-देवा हि चन्द्रादयस्तावत् प्रत्यक्षा एव, अन्येऽप्युपयाचितादिफलदर्शनानुमानतोऽवगम्यन्ते, नारकास्त्वभिधानव्यतिरिक्तार्थशून्याः कथं गम्यन्त इति !, प्रयोगश्च-न सन्ति
SAXASSISLAM
dain Education International
For Personal & Private Use Only
www.janelibrary.org

Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512 513 514