Book Title: Aavashyaksutram Part 01
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 511
________________ 3 संशयात्, न च धर्मिग्रहणे धर्माग्रहणं युज्यते, इतश्च देहादन्यच्चैतन्यं, चलनादिचेष्टानिमित्तत्वात् इह यद्यस्य चलनादिचेष्टानिमित्तं तत्ततो भिन्नं दृष्टं, यथा मारुतः पादपादिति, ततश्च चैतन्यस्याऽऽत्मधर्मत्वात्तस्य चानादिमत्कर्मसन्ततिसमालिङ्गितत्वात् उत्पादव्ययधौव्ययुक्तत्वात्कर्मपरिणामापेक्षमनुष्यादिपर्यायनिवृत्त्या देवादिपर्यायान्तरावाप्तिरस्याविरु|द्धेति, नित्यानित्यैकान्तपक्षोक्तदोषानुपपत्तिश्चात्रानभ्युपगमात् इति । छिण्णंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं । सो समणो पव्वइओ तिहि उ सह खंडियसएहिं ॥ ६३७ ॥ व्याख्या - पूर्ववत् । दशमो गणधरः समाप्तः ॥ ते पइए सोउं पभासो आगच्छई जिणसगासं । वच्चामि ण वंदामी वंदित्ता पजुवासामि ॥ ६३८ ॥ व्याख्या - पूर्ववन्नवरं प्रभासः आगच्छतीति । आभट्ठो य जिणेणं जाइजरामरणविष्यमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ॥ ६३९ ॥ सपातनिका व्याख्या पूर्ववदेव । किं मण्णे निव्वाणं अत्थि णत्थित्ति संसओ तुज्झं । वेयपयाण य अत्थं ण याणसि तेसिमो अत्थो ॥ ६४० ॥ व्याख्या - किं निर्वाणमस्ति नास्तीति मन्यसे, व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्धवेदपदश्रुतिसमुत्थो वर्त्तते, शेषं पूर्ववत् । तानि चामूनि वेदपदानि - 'जरामय्यै वा एतत्सर्वे यदग्निहोत्रं' तथा 'द्वे ब्रह्मणी वेदितव्ये, परमपरं च, तत्र परं सत्यं ज्ञानमनन्तं ब्रह्मेति एतेषां चायमर्थस्तव मतौ प्रतिभासते - अग्निहोत्रक्रिया भूतवधोपकारभूतत्वात् Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 509 510 511 512 513 514