Book Title: Aavashyaksutram Part 01
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
मूर्तसंयोगो न घटते, घटाकाशसंयोगदर्शनाद्, वियोगस्तु दर्शितएव,न च मुक्तस्यापि कर्मयोगः, तस्य कषायादिपरिणामाभावात् , कषायादियुक्तश्च जीवः कर्मणो योग्यान पुद्गलानादत्ते इति, न चेत्थं भव्योच्छेदप्रसङ्गः, अनागतकालवत्तेषामनन्तत्वात् , न च परिमितक्षेत्रे तेषामवस्थानाभावः, अमूर्तत्वात्, प्रतिद्रव्यमनन्तकेवलज्ञानदर्शनसम्पातवन्नर्तकीनयनविज्ञानसम्पातवद्वा, इत्यलं प्रसङ्गेन । छिण्णमि संसयंमी जिणेण जरमरणविप्पमुक्केणं । सो समगो पव्वइओ अछुट्टहिं सह खंडियसएहिं ॥६२१॥ ___ व्याख्या-पूर्ववत् , नवरम्-अर्द्धचतुर्थैः सह खण्डिकशतैः । इति षष्ठो गणधरः समाप्तः।
ते पव्वइए सोउं मोरिओ आगच्छई जिणसगासं । वच्चामि ण वंदामी वंदित्ता पजुवासामि ॥ ६२२॥ व्याख्या-पूर्ववत्, नवरं मौर्य आगच्छति जिनसकाशमिति नानात्वम् । आभट्टो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सवण्णू सव्वदरिसीणं ॥ ६२३ ॥ । सपातनिका व्याख्या पूर्ववदेव । किं मनसि संति देवा उयाहुनसन्तीति संसओतुज्झं । वेयपयाण य अत्थं नयाणसी तेसिमो अत्थो ॥६२४॥
व्याख्या-किं सन्ति देवा उत न सन्तीति मन्यसे, व्याख्यान्तरं प्राग्वत् , अयं च संशयस्तव विरुद्धवेदपदश्रुतिप्रभवो वर्त्तते, पश्चार्द्ध पूर्ववत् । तानि चामूनि वेदपदानि-'स एष यज्ञायुधी यजमानोऽअसा स्वर्गलोकं गच्छती' त्यादीनि, तथा |'अपाम सोमम्, अमृता अभूम, अगमन् ज्योतिः, अविदाम देवान् , किं नूनमस्मांस्तृणवदरातिः, किमु धूर्तिरमृतम
Jain Education Internal oral
For Personal & Private Use Only
nebrary 09

Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514