Book Title: Aavashyaksutram Part 01
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 501
________________ व्याख्या — पूर्ववत् । किं मन्नि बंधमोक्खा अत्थिण अत्थित्ति संसओ तुज्झं । वेयपयाण य अत्थं ण याणसी तेसिमो अत्थो ॥ ६२० ॥ व्याख्या—किं मन्यसे बन्धमोक्षौ स्तो न वा ?, नन्वयमनुचितस्ते संशयः, व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्धवेदपदश्रुतिसमुत्थो वर्त्तते, वेदपदानां चार्थं न जानासि चः पूर्ववत्, तेषामयमर्थो - वक्ष्यमाणलक्षण इत्यर्थः । तानि चामूनि वेदपदानि -'स एष विगुणो विभुर्न बध्यते संसरति वा, न मुच्यते मोचयति वा न वा एष बाह्यमभ्यन्तरं वा वेद' इत्यादीनि, तथा 'नह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति, अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशतः' इत्यादीनि च, एषां चायमर्थस्ते चेतसि प्रतिभासते - स एषः - अधिकृतो जीवः विगुणः - सत्त्वादिगुणरहितः विभुः - सर्वगतः न बध्यतेपुण्यपापाभ्यां न युज्यत इत्यर्थः, संसरति वा, नेत्यनुवर्त्तते, न मुच्यते-न कर्मणा वियुज्यते, बन्धाभावात्, मोचयति वाऽन्यम्, अनेनाकर्तृकत्वमाह, न वा एष बाह्यम् - आत्मभिन्नं महदहङ्कारादि अभ्यन्तरं - स्वरूपमेव वेद - विजानाति, प्रकृतिधर्मत्वात् ज्ञानस्य, प्रकृतेश्चाचेतनत्वाद्बन्धमोक्षानुपपत्तिरिति भावः । ततश्चामूनि किल बन्धमोक्षाभावप्रतिपादकानि, तथा 'नह वै' नैवेत्यर्थः सशरीरस्य प्रियाप्रिययोरपहतिरस्तीति- बाह्याध्यात्मिकानादिशरीरसन्तानयुक्तत्वात् सुखदुःखयोरहतिः संसारिणो नास्तीत्यर्थः, अशरीरं वा वसन्तम्-अमूर्त्तमित्यर्थः, प्रियाप्रिये न स्पृशतः, कारणाभावादित्यर्थः, अमूनि च बन्धमोक्षाभिधायकानीति, अतः संशयः, तथा सौम्य ! भवतोऽभिप्रायो - बन्धो हि जीवकर्मसंयोगलक्षणः, स आदिमानादि| रहितो वा स्यात् ?, यदि प्रथमो विकल्पस्ततः किं पूर्वमात्मप्रसूतिः पश्चात्कर्मणः उत पूर्व कर्मणः पश्चादात्मनः आहोश्वि Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514