Book Title: Aavashyaksutram Part 01
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
आवश्यक
॥२४८॥
Sपि भवान्तरवैचिवचित्र्यादेव काव्यवाप्यतीतानागतेयो
गतिविशेष इत्यर्थः, शेषाणि तु सुगमानि, न च नियमतः कारणानुरूपं कार्यमुत्पद्यते, वैसादृश्यस्यापि दर्शनात्, तद्यथा--हारिभदीगाच्छरो जायते, तस्मादेव सर्षपानुलिप्तात् तृणानीति, तथा गोलोमाविलोमभ्यो दूर्वेति, एवमनियमः, अथवा कारणानु- यवृत्तिः रूपकार्यपक्षेऽपि भवान्तरवैचित्र्यमस्य युक्तमेव,यतो भवाङ्करबीजं सौम्य!सात्मकं कर्म,तच्च तिर्यग्नरनारकामराद्यायुष्कभेद- विभागः १ भिन्नत्वात् चित्रमेव, अतः कारणवैचित्र्यादेव कार्यवैचित्र्यमिति, वस्तुस्थित्या तु सौम्य ! न किञ्चिदिह लोके परलोके वा सर्वथा समानमसमानं वाऽस्ति, तथा चेह युवा निजैरप्यतीतानागतैर्बालवृद्धादिपर्यायैः सर्वथा न समानः, अवस्थाभेदग्रहणात्, नापि सर्वथाऽसमानः, सत्ताद्यनुगमदर्शनाद्, एवं परलोकेऽपि मनुजो देवत्वमापन्नो न सर्वथा समानोऽसमानो वा, इत्थं चैतदङ्गीकर्त्तव्यं, अन्यथा दानदयादीनां वैयर्थ्यप्रसङ्गात् । |छिण्णंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं । सो समणो पव्वइओ पंचहिँ सह खंडियसएहिं ॥ ६१७ ॥
व्याख्या-पूर्ववत् ॥ इति पञ्चमो गणधरः समाप्तः। ते पव्वइए सोउं मंडिओ आगच्छइ जिणसगासं । वच्चामि ण वंदामी वंदित्ता पज्जुवासामि ॥ ६१८॥
व्याख्या-तानिन्द्रभूतिप्रमुखान् प्रव्रजितान् श्रुत्वा मण्डिकः षष्ठो गणधरः आगच्छति जिनसकाशं, किम्भूतेनाध्यवसायेनेत्याह-वच्चामि णमित्यादि पूर्ववत् । स च भगवत्समीपं गत्वा प्रणम्य च भुवननाथमतीव मुदितः तद-12॥२४॥ ग्रतस्तस्थौ, अत्रान्तरे
आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ॥ ६१९॥
Jain Educa
t ional
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514