Book Title: Aavashyaksutram Part 01
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
व्याख्या-'तान्' इन्द्रभूतिप्रमुखान् प्रव्रजितान् श्रुत्वा सुधर्मः पञ्चमो गणधर आगच्छति जिनसकाश, किम्भूतेनाध्यवसायेन इत्याह-पश्चार्द्ध पूर्ववत् । स च भगवन्तं दृष्ट्वा अतीव मुमुदे, अत्रान्तरे
आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वरिसीणं ॥६१५॥ व्याख्या-पूर्ववत् । किं मण्णि जारिसो इह भवंमि सो तारिसो परभवेऽवि?। वेयपयाण य अत्थंण जाणसीतेसिमो अत्थो॥१६॥ ___ व्याख्या-किं मन्यसे ? यो मनुष्यादिदृश इह भवे स तादृशः परभवेऽपि, नन्वयमनुचितस्ते संशयः, व्याख्यान्तरं पूर्ववत् , संशयश्च तवायं विरुद्धवेदपदश्रुतिनिबन्धनो वर्तते, तानि चामूनि-“पुरुषो वै पुरुषत्वमश्नुते' पुरुषत्वं प्रामोतीत्यर्थः 'पशवः पशुत्वम्' इत्यादीनि, तथा 'शृगालो वै एष जायते यः सपुरीषो दह्यते' इत्यादीनि च, तत्र वेदपदानां चार्थ न जानासि, चः पूर्ववत् , तेषामयमों-वक्ष्यमाणलक्षण इत्यक्षरार्थः। तत्र वेदपदानां त्वमित्थमर्थ मन्यसे-पुरुषो मृतः सन् पुरुषत्वमश्नुते, पुरुषत्वमेव प्रामोतीत्यर्थः, तथा पशवो-गवादयः पशुत्वमेवेत्यमूनि भवान्तरसादृश्याभिधायकानि,
तथा 'शृगालो वै एष' इत्यादीनि तु भवान्तरे वैसादृश्यख्यापकानीत्यतः संशयः, कारणानुरूपं च कार्यमुत्पद्यते इति दतेऽभिप्रायो, यतो न शालिबीजाद्गोधूमाङ्करप्रसूतिः इति, तत्र वेदपदानामयमर्थः-पुरुषः खल्लिह जन्मनि स्वभावमाई
वार्जवादिगुणयुक्तो मनुष्यनामगोत्रे कर्मणी बद्ध्वा मृतः सन् पुरुषत्वमश्नुते, न तु नियमतः, एवं पशवोऽपि पशुभवे |मायादिगुणयुक्ताः पशुनामगोत्रे कर्मणी बद्ध्वा मृताः सन्तः पशुत्वमासादयन्ति, न तु नियोगतः इति, कर्मसापेक्षो जीवानां|
dain Education International
For Personal & Private Use Only
www.janelibrary.org

Page Navigation
1 ... 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514