Book Title: Aavashyaksutram Part 01
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
हारिभद्रीयवृत्तिः विभागः१
आवश्यक- किंच-आलयात्पीतादिसंवेदनजननशक्तयो भिन्ना वा स्युरभिन्ना वा ?, यद्यभिन्नाः सर्वैकत्वप्रसङ्गः, एकालयाभेदान्यथा॥२४७॥
नुपपत्तेः, ततश्च कुतस्तासां पीतादिप्रतिभासहेतुता ?, प्रयोगश्च-नीलविज्ञानहेतुतया परिकल्पिता शक्तिर्न तद्धर्मा, शक्त्यन्तररूपत्वात्, शक्त्यन्तरस्वात्मवत् , अथ भिन्नास्तथाप्यवस्तुसत्यो वा स्युः वस्तुसत्यो वा?, यद्यवस्तुसत्यः टू समूहवत्कुतः प्रत्ययत्वम् ?, अथ वस्तुसत्यो बाह्योऽर्थः केन वार्यत इति ?, एवमणूनां तुल्यरूपग्रहणं तदाभासज्ञानोत्पत्तेः,
न च विषयबलोपजातसंवेदनाकारस्य विषयाद्भेदाभेदविकल्पद्वारेणानुपपत्तिर्भाव्या, विशिष्टपरिणामोपेतार्थसन्निधावात्मनः कालक्षयोपशमादिसव्यपेक्षस्य नीलादिविज्ञानमुत्पद्यते, तथापरिणामादू, इत्थं चैतदङ्गीकर्तव्यम् , अन्यथा नीलात्संवेदनानीलसंवेदनान्तरानुपपत्तिः, प्रागुपन्यस्तविकल्पयुगलकसम्भवादित्येवं परमाणुतुल्यरूपग्रहोऽविरुद्धः, अतुल्यरूपं तु योगिगम्यत्वात् विशिष्टक्षयोपशमाभावात्सर्वथा न परिगृह्यते, न च परमाणूनां बहुत्वेऽपि विशेषाभावाद् घटशरावादिबुद्धेः तुल्यत्वप्रसङ्गो, विशेषाभावस्यासिद्धत्वात् , तथा च परमाणव एव विशिष्टपरिणामवन्तो घट इति, न च परमाणुसमुदायातिरिक्तानि भूतानि इत्यलं प्रसङ्गेन । छिण्णंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं । सो समणो पव्व ईओ पंचहिँ सह खंडियसएहिं ॥ ६१३ ॥ व्याख्या-पूर्ववत् । इति चतुर्थो गणधरः समाप्तः। ते पव्वइए सोउं सुहमो आगच्छई जिणसगासं । वच्चामि ण वंदामी वंदित्ता पज्जुवासामी ॥ ६१४ ॥
॥२४७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514