Book Title: Aavashyaksutram Part 01
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
आवश्यक
हारिभद्रीयवृत्तिः विभागः१
॥२४६॥
SAGARSACRACKER
गाथाक्षरार्थः ॥ इत्येवंभूतेन सङ्कल्पेन गत्वा भगवन्तं प्रणम्य सत्पादान्तिके भगवत्सम्पदुपलब्ध्या विस्मयोत्फुल्लनयनस्तस्थौ, अत्रान्तरे__आभट्टो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्ण सव्वदरिसीणं ॥ ११ ॥ ___ व्याख्या-पूर्ववत् । किं मण्णि पंच भूया अत्थि नत्थित्ति संसओ तुझं । वेयपयाण य अत्थंण जाणसी तेसिमो अत्थो ॥६१२॥ ___ व्याख्या-किं 'पञ्च भूतानि' पृथिव्यादीनि सन्ति न सन्तीति वा मन्यसे, व्याख्यान्तरं पूर्ववत् । संशयश्च तवायं विरु
वेदपदश्रुतिसमुत्थो वर्तते, शेषं पूर्ववत्, तानि चामूनि वेदपदानि वर्तन्ते-'स्वप्नोपमं वै सकलमित्येष ब्रह्मविधिरञ्जसा विज्ञेय' इत्यादीनि, तथा 'द्यावा पृथिवी' इत्यादीनि च, तथा 'पृथ्वी देवता आपो देवता' इत्यादीनि च, एतेषां चायमर्थः तव प्रतिभासते-'खप्नोपमं स्वप्नसदृशं, वैनिपातोऽवधारणे 'सकलम्' अशेषं जगत् एष ब्रह्मविधिः' एष परमार्थ: प्रकार इत्यर्थः 'अञ्जसा' प्रगुणेन न्यायेन 'विज्ञेयो' विज्ञातव्यो भाव्य इत्यर्थः, ततश्चामूनि किल भूतनिह्नवपराणि, शेषाणि तु सत्ताप्रतिपादकानीति, अतः संशयः, तथा भूताभाव एव च युक्त्युपपन्नः, ते चित्तविभ्रमः, तेषां प्रमाणतोऽग्रहणात् ,
तथाहि-चक्षुरादिविज्ञानस्य आलम्बनं परमाणवो वा स्युः परमाणुसमूहो वा ?, न तावदणवो, विज्ञाने अप्रतिभासनात्, है नापि तत्समूहो, भ्रान्तत्वात् , द्विचन्द्रवत् , भ्रान्तता चास्य समूहिभ्यस्तत्त्वान्यत्वाभ्यामनिर्वचनीयत्वात् अवस्तुत्वात् ,
अतः कुतो भूतसत्तेति, तत्र वेदपदानां चार्थ न जानासि, चशब्दाद्युतिं हृदयं च तेषां तवसंशयनिबन्धनानां वेदपदा
॥२४६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514