Book Title: Aavashyaksutram Part 01
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
आवश्यक- प्रदीपदेशोद्योतितघटवत् देशतः प्रत्यक्ष एव, ज्ञानावरणीयाधशेषप्रतिबन्धकापगमसमनन्तराविर्भूतकेवलज्ञानसम्पदा सर्व- हारिभद्री
प्रत्यक्ष इति । अनुमानगम्योऽप्ययं-विद्यमानकर्तृकमिदं शरीरं, भोग्यत्वात्, ओदनादिवत् , व्योमकुसुमं विपक्ष इत्यनु- यवृत्तिः . ॥२४३॥ मानं, न च लिङ्गयविनाभूतलिङ्गोपलम्भव्यतिरेकेणानुमानस्य एकान्ततोऽप्रवृत्तिः, हसितादिलिङ्गविशेषस्य ग्रहाख्यलिङ्गय
विभागः१ | विनाभावग्रहणमन्तरेणापि ग्रहगमकत्वदर्शनात् , न च देह एव ग्रहो, येन अन्यदेहदर्शनमविनाभावग्रहणनियामकं भवतीति । आगमगम्यता त्वस्याभिहितैव । इत्यलं विस्तरेण, गमनिकामात्रमेतत् इति । छिण्णमि संसयंमी जिणेण जरमरणविप्पमुक्केणं । सो समणो पव्वइओ पंचहि सह खंडियसएहिं ॥६०१ ॥
___ व्याख्या-एवं 'छिन्ने' निराकृते संशये जिनेन जरामरणाभ्याम्-उक्तलक्षणाभ्यां विप्रमुक्तः तेन 'स' इन्द्रभूतिः 8| श्रमणः प्रव्रजितः' साधुः संवृत्त इत्यर्थः, पञ्चभिः सह खण्डिकशतैः, खण्डिकाः-छात्रा इति गाथार्थः ॥ ६०१॥ इह च8
वेदपदोपन्यासस्तदा वेदानां सञ्जातत्वात् तेन च प्रमाणत्वेन अङ्गीकृतत्वात् । इति प्रथमो गणधरः समाप्तः॥ तं पव्वइयं सोउं बितिओ आगच्छई अमरिसेणं । वच्चामि ण आणेमी पराजिणित्ता ण तं समणं ॥६०२॥ __ व्याख्या-'तम्' इन्द्रभूतिं प्रव्रजितं श्रुत्वा 'द्वितीयः' खल्वग्निभूतिरत्रान्तरे आगच्छति अमर्षेण प्राग्व्यावणितस्वरूपेण हेतुभूतेन, व्रजामिणमिति वाक्यालङ्कारे, आनयामि इन्द्रभूतिमिति गम्यते, पराजित्य, णं पूर्ववत्, तं 'श्रमणम्'
॥२४॥ इन्द्रजालिककल्पमिति गाथार्थः॥६०२॥ स हि तेन छलादिना विनिर्जित इतीदानीं तस्य का वार्ता ? इत्यादि चिन्तयन् |जिनसकाशं प्राप्तः, दृष्ट्वा च भगवन्तं विस्मयमुपगत इति, अत्रान्तरे
GARICORRECRA
Jain Educationmentational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514